________________
२३८) सिद्धान्तकौमुदी। [ उणादि. जरन्तो महिषः । वेशन्तः पालम् । ४०७ रुहिनन्दिजीविप्राणिभ्यः षिदा. शिषि। रोहन्तो वृक्ष भेदः । नन्दन्तः पुत्रः। जीवन्त श्रौषधम् । प्राणन्तो वायुः । पित्वान्ङीष् । रोहन्ती। ४०८ तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च । दशभ्यो झन्स्यात् । स च षित् । तरतः समुद्रः । तरन्ती नौका । भवन्तः कालः । वहन्तो वायुः । वसन्तः ऋतुः। भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वानिमय इस्वः । 'प्रधामन्त--' (स २३११) इति णेरयः। गण्डयन्तो जलदः। मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । वल्ल संवरणे, आभ्यामभच् प्रत्ययः, स च निदित्यर्थः । विशिभ्यां मच् । ज वयोहानी, विश प्रवेशने, आभ्यां झप्रत्यय इत्यर्थः । जरन्त इति । 'मोऽन्तः' इति झकारस्यान्तादेशः । गुण इति भावः । एवं वेशन्त इत्यपि । 'वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका' इत्यमरः । रुहिनन्दिजीवि । रुह बीजजन्मनि, टु नदि समृद्धौ, जीव प्राणधारणे, प्रपूर्वः अन प्राणेन, एभ्यः
आशिषि झन् , स च षिदित्यर्थः । रोहन्त इति । झस्यान्तादेशे उपधागुणे रूपम् । षित्त्वफलं दर्शयन् 'षिद्गौरादिभ्यश्च' इति डीषि उदाहरणमाह रोह. न्तीति । तृभूवहिवास । तृ प्लवनतरणयोः, भू सत्तायाम्, वह प्रापणे, वस निवासे, भास दोप्तो, साध संसिद्धौ, गड सेचने, मडि भूषायाम् , जि जये, टु नदि समृद्धौ, एभ्यो मच् स्यात् , स च षिदित्यर्थः । तरन्त इति । झस्यान्तादेशः । षित्त्व. फलं दर्शयितुमाह तरन्ती नौकेति । गण्डयन्त इति । गडि सेचने, अस्माद् ण्यन्तात् प्रत्ययः । ननु तर्हि णिचि उपधावृद्धिः कथं न श्रूयत इत्यत आह घटादय इति । मित्त्वे प्रकृते किमायातमित्यत आह ह्रस्व इति । मितां ह्रस्व इत्यनेनेत्यादिः । ननु ‘णेरनिटि' इति णेर्लोपः स्यादित्यत आह अयामन्तेति । एवं मण्डयन्त श्रेष्ठ षयोः' इति च । रासिवल्लि । रास शब्दे वल्ल संवरणे । 'वल्लभो दयितेऽध्यक्ष सुलक्षणतुरङ्गमे' इति मेदिनी । जृविशि । ज वयोहानौ, विश प्रवेशने । 'वेशन्तः पल्वलं चाल्पसरः' । बाहुलकादहतेरपि झच् । 'अर्हन्तः क्षपणको जिनः' इति विक्रमादित्यकोशः । रुहि । रुह बीजजन्मनि प्रादुर्भावे च, टुनदि समृद्धौ, जीव प्राणधारणे, अन प्राणने प्रप॑वः । एभ्य आशिषि झन् स च षिद्भवति । प्राणन्त इति । 'अनितेः' इति णत्वम् । तृभू । तृ प्लवनतरणयोः, भू सत्तायाम्, वह प्रापणे, वस निवासे, भास दीप्तौ, साध संसिद्धौ, गड सेचने, मडि भूषायाम् , उभौ ण्यन्तौ । जि जये, टुनदि समृद्धौ, ण्यन्तः । नन्दयन्त इति । उज्ज्वलदत्तस्तु नन्दन्त इत्युदा. हृय पूर्वसूत्रेण गतार्थतामाशक्य अनाशीरथ नन्दिग्रहणमित्याह तच्चिन्त्यम् ।