________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसाहिता। [२३७ ३६६ वहियुभ्यां णित् । वाहसोऽजगरः । यावसस्तृणसङ्घातः । ४०० वयश्च । वय गतौ । वायसः काकः । ४०१ दिवः कित् । दिवसम् , दिवसः। ४०२ कृशशलिकलिगर्दिभ्योऽभच् । करमः । शरभः । शलभः । कलभः । गर्दभः ४०३ ऋषिवृषिभ्यां कित् । ऋषभः । वृषभः।४०४ रुषेनिल्लुष्च । रुष हिंसायाम् , अस्मादभच निस्किरस्यात्, लुषादेशश्च । 'लुषभो मत्तदन्तिनि'। ४०५ रासिवल्लिभ्यां च । रासभः । वल्लभः। ४०६ जूविशिभ्यां झन् । वेञ् तन्तुसन्ताने, अस्मादतसच् स्यात् , प्रत्ययस्य तुडागमश्चेत्यर्थः । ननु वेतस इति वक्ष्यमाणमसङ्गतम् , आदेच इत्यात्वस्य दुरित्वादित्यत आह बाहुलकादिति । वहियुभ्यां णित् । वह प्रापणे, यु मिश्रणे, प्राभ्यामसच् प्रत्ययः, स च णिदित्यर्थः । वाहस इति । णित्त्वादुपधावृद्धिः । 'शयुर्वाहस इत्युभौ' इत्यमरः । यावस इति । णित्त्वाद् वृद्धिः । वयश्च । वय गतौ, अत्माद् असच , स च णिदित्यर्थः । वायस इति । 'बलि ग्वायसा अपि' इत्यमरः । दिवः कित् । दिवु क्रीडादौ अस्मादसच् कित्स्यात् । दिवस इति । कित्त्वान लघूपधगुणः । 'क्लीबे दिवसवासरौ' इत्यमरः । कृशशलि । क विक्षेपे, शृ हिंसायाम्, शल गतौ, कल शब्दे, गर्द शब्दे, एभ्यः अभचप्रत्यय इत्यर्थः । 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । ऋषिवृषिभ्यां कित् । ऋषी गतौ, वृषु सेचने, आभ्यामभच् स्यात् , स च कित् । ऋषभ इति । कित्त्वान्न लघूपधगुणः । रुषेनिल्लुष् च । रुष हिंसायामस्मादभच् , नित्किस्यात् , प्रकृतेर्लुषादेशश्च । रासि वल्लिभ्यां च । रास शब्दे, 'वियस्तुट् च' इति पठित्वा वी गतिप्रजनकान्त्यादिष्विति धातुरुदाहृतः । वहि । .वह प्रापणे, यु मिश्रणादौ, 'अजगरे शयुर्वाहस इत्युभौ' इत्यमरः । 'वा तु क्लीबे दिवसवासरौ' इति च । यावस इति । असचो णित्त्वाद् वृद्धिः । दिवः । दिवु क्रीडादौ । कृश । कृ विक्षेपे, शृ हिंसायाम् , शल गतौ, कल विलेखने, गर्द शब्दे । 'करभो मणिबन्धादिकनिष्टान्तोष्ट्रतत्सुते' इति मेदिनी। 'मबिन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । 'शरभस्तु पशोभिदि' । करभो वानरभिदि' इति मेदिनी । 'समौ पतङ्गशलभौ' इत्यमरः । 'कलभः करिपोतकः' इति च । 'गर्दर्भ श्वेतकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी चुदजन्तुरोगप्रभेदयोः' इति मदिनी। ऋषि । ऋषी गती, वृषु सेचने, आभ्यां अभच् स्यात्स च कित् । 'ऋषभस्त्वौषधान्तरे । स्वरभिवृषयोः कर्णरन्ध्रगर्दभपुच्छयोः । उत्तरस्थः स्मृतः श्रेष्ठ स्त्रीनराकारयोषिति । शुकशिम्ब्यां शिरालायां विधवायां कचिन्मता' इति मदिनी । 'वृषभः