________________
सिद्धान्तकौमुदी।
[ उणादि
२३६ ] लोकपालः।३६५ रुदिविदिभ्यांङित् । रोदितीति रुदथः शिशुः । वेत्तीति विदथः। ३६६ उपसर्गे वसेः । पावसथो गृहम् , संवसथो ग्रामः । ३६७ अत्यविच. मितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् । त्रयोदशम्योऽसब्स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमन्स्य. मिश्चमसः सोमपानपात्रम् । ताम्यत्यस्मिमिति तमसोऽन्धकारः । नमसोऽनकूलः। 'रभसो वेगहर्षयोः' । लभसो धनं याचकश्च । नभते नभ्यति वा नभस प्राकाशः। तपसः पती चन्द्रश्च । पतसः पत्ती । 'पनसः कण्टकिफलः'। पणसः पण्य. द्रव्यम् । महसं ज्ञानम् । ३६८ वेञस्तुट् च । बाहुलकादावाभावः । वेतसः। चित्त्वं स्वरविशेषार्थम् । रुदिविदिभ्यां ङित् । रुदिर् अश्रुविमोचने, विद ज्ञाने, आभ्यामथप्रत्ययो उित्स्यात् । रुदथ इति । विस्वान गुणः । उपसर्गे वसेः । उपसर्ग उपपदे वस निवासे अस्मादथः स्यात् । श्रावसथ इति । भाडि उपपदे वसेः प्रत्ययः । अत्यविचमितमि । अन सातत्यगमने, अव रक्षणादौ, चमु अदने, तमु काक्षायाम् , णम प्रहत्वे शब्दे, रभ रामस्ये, डु लभष् प्राप्तौ, णभ हिंसायाम् , तप सन्तापे, पल्ल गतौ, पन व्यवहारे स्तुती च, पण च, मह पूजायाम् , एभ्योऽसच्प्रत्यय इत्यर्थः । अतस इति । 'अतसी स्यादुमा क्षुमा' इत्यमरः । गौरादित्वान्छीष् । शेषं स्पष्टम् । वेजस्तुद् च । इति च । भृतः । डुभृञ् धारणपोषणयोः । अस्मादथः स्यात्स च चित् । रुदि। रुदिर् अश्रुविमोचने, विद ज्ञाने, आभ्यामथः स्यात्स च डित् । 'विदियो योगिकृत्तिनोः' इति मेदिनी । अत्रोज्ज्वलदत्तो रुविदिभ्यां किदिति पठिवा रौतीति रुवथः श्वेत्युदाजहार । दशपादीवृत्तिकारस्तु रुदिविदिभ्यो किदिति पपाठ । इह तु भाष्यानु. रोधेन डिदिति पठितम् । तथाहि 'गाङ् कुटादि-' सूत्रे के पुनश्चङदायः चअङ्नजिङ्अथड्नङः इति भाष्यम्। किदिति पठतां तु अथनिति भाष्यं न सङ्गच्छेतति दिक् । उप। वस निवासे, अस्मादुपसर्गे अथः स्यात् । उज्ज्वलदत्तेन तु सोपसर्गाद्वसेरिति पठितमन्यैस्तु श्राङि वसेरिति पठितम् । अत्यवि । अत सातत्यगमने, अव रक्षणादौ, चमु अदने, तमु काङ्क्षायाम्, णमु प्रह्वत्वे शब्द च । रभ रामस्ये, डुलभष् प्राप्ती, णभ तुभ हिंसायाम् , भ्वादौ कयादौ चायम् । तप सन्तापे, पत्ल गतो, पण व्यवहारे स्तुतौ च, पन च, मह पूजायाम् । गौरादित्वाद् ङीष् । 'अतसी स्यादुमा तुमा' इत्यमरः । 'चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्ट के स्त्रियाम्' इति मेदिनी । 'पनसः कण्टकिफले कन्दके वानरान्तरे । स्त्रियां रोगप्रभेदे स्यात्' इति च । वेशः । वे तन्तुसन्ताने, अस्मादसच् स्यात्तस्य तुटू । दशपादीवृत्तौ-तु