________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३५ पचतोऽग्निः। प्रमतो रोगः। तमतस्तृष्णापरः। नमतः प्रतः। हर्यतोऽश्वः । ३६१ पृषिरञ्जिभ्यां कित् । पृषतो मृगो बिन्दुश्च । रजतम् । ३९२ खलतिः। स्खलतेः सलोपः। अतप्रत्ययान्तस्येवं च । खसतिनिकेशशिराः। ३६३ शीशपिरुगमिवश्चिजीविप्राणिभ्योऽथः । सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः। गमथः पथिकः पन्थाश्च । वश्चथो धूर्तः। वन्दीति पाठे कर्माणि कर्तरि वा प्रत्ययः। वन्दते वन्यते वा वन्दथः खोता स्तुत्यश्च । जीवथः श्रायुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । 'शमथस्तु शमः शान्तिन्तिस्तु दमथो दमः' । ३६४ भृनश्चित् । भरथो हर्य गतिकान्त्योः, एभ्योऽतच् प्रत्यय इत्यर्थः । पिरञ्जिभ्यां कित् । पृषु सेचने, रज रागे, आभ्यामतच कित्स्यात् । 'पृषन्ति बिन्दुपृषताः' इत्यमरः । खलतिः । इत्थं निपात्यत इत्यर्थः । निपातनप्रकारमाह स्खलतेरिति । स्खल संचलन इत्यस्मादिति भावः । अस्मादतरप्रत्ययेऽन्त्यस्याकारस्येत्वं च निपात्यत इत्यर्थः । शीशपिरुगमि । शीङ् स्वप्ने, शप आक्रोशे, रु शब्दे, गम्ल गती, वत्रु गतौ, जीव प्राणधारणे, प्रपूर्वः अन प्राणने, एभ्योऽयप्रत्ययः स्यादित्यर्थः । शयथ इति । गुणेऽयादेशः । प्राणथ इति । 'अनितेः' इति णत्वम् । भृनश्चित् । डु भृञ् धारणपोषणयोरस्मादथप्रत्ययः, स च चित् । मुनौ नटे । रामानुजे च दौष्यन्तौ' इति मेदिनी। यजतः ऋत्विगिति । उज्ज्वलदत्ताद्यनुरोधेनैवमुक्तम् । वेदभाष्ये तु 'हिरण्यशृङ्गं यजतो बृहन्तम्' इत्यादिषु यजतशब्दो यष्टव्यपरतया व्याख्यातः । 'पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः। देवमुन्यन्तरे शेले' इति मेदिनी । हर्यतोऽश्व इति । 'परि त्यं हर्यतं हरिम्' 'आहर्यताय धृष्णवे' इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् । पृषि । पृषु सेचने, रज रागे, आभ्यामतच् कित्स्यात् । 'पृषन् मृगे पुमान बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽत्युभाविमौ' इति मेदिनी । 'रज्नं त्रिषु शुक्ने स्यात् क्लीबे हारे च दुर्वणे' इति च । खलतिः । स्खल संचलने । शीशपि। शी खप्ने, शप आकोशे, रु शब्दे, गम्लु गतौ, वच्चु गतौ भ्वादिः, वञ्चु प्रलम्भने चुरादिः, जीव प्राणधारणे, अन प्राणने प्रपूर्वः । उज्ज्वलदत्तेनात्र वञ्चिजीवीति पठ्यते । अन्यैस्तु वञ्चिस्थान वन्दिः पठ्यते । वैचथवन्दथयोरन्यतरं वेदादावुपलभ्यते बहुश्रुतैः पाठो निर्णेयः। वन्दथ इति। कर्मणि कर्तरि वा प्रत्ययः । प्राणथ इति । 'अनितेः' इति णत्वम् । शमिदमिभ्यामिति । शम उपशमे, दमु उपशमे । 'शमथः शान्तिमन्त्रिणोः' इति मेदिनी। 'दमथस्तु पुमान् दराडे दमे च परिकीर्तितः'