SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३४ ] सिद्धान्तकौमुदी । [ उणादिजिवधिपतिभ्योऽत्रन् । श्रमत्र भाजनम् । नक्षत्रम् । यजत्रः । बधत्रमायुधम् । पतनं तनूरुहम् । ३८६ गडेरादेश्च कः । कडत्रम् । डलरोरेकध्वस्मरण/श्कलत्रम् । ३८७ वृञश्चित् । वरत्रा चर्ममयी रज्जुः । ३८८ सुविदेः कत्रः । 'सुविदत्रं कुटुम्बकम्' । ३८६ कृतेर्नुम्च । कृन्तत्रं लाङ्गलम् । ३६० भृमृदृशियजिपर्विपच्यमितमिनमिहयेंभ्यो ऽतच् । दशम्योऽच् स्यात् । भरतः । मरतो मृत्युः । ' दर्शतः सोमसूर्ययोः' । यजतः ऋत्विक् । पर्वतः । 1 , 1 गतौ, यज देवपूजादौ, वध हिंसायम्, पत्लृ गतौ, एभ्यः अत्रन्प्रत्यय इत्यर्थः । यद्यपि तत्पुरुषप्रकरणे 'नम्राणनपात्' इति सूत्रेण नक्षत्रमिति साधितम् तथापि तद्व्युविश्यन्तरमिति बोध्यम् । गडेरादेश्च कः । गड सेचने, अस्मादत्रन् स्यात्, आदेर्गकारस्य ककारश्चेत्यर्थः । कडत्रमिति । गकारस्य ककारे रूपम् । ननु कथं कलत्रमिति प्रयुज्यत इत्याशङ्कयाह डलयोरिति । 'कलत्रं श्रोणिभार्ययोः' । वृञश्चित् । वृञ् वरणे, अस्मादत्रन् चित्स्यादित्यर्थः । चिरखं खरार्थम् । वरत्रेति । अनि धातोर्गुणः । 'नधी वधी वरत्रा च' इत्यमरः । सुविदेः कत्रन् । सावुपपदे विद ज्ञाने इत्यस्मात् कत्रनित्यर्थः । सुविदत्रमिति । कित्त्वान्न लघूपधगुणः । कृतेर्नुम् च । कृती छेदने, अस्मात् कत्रन् स्यात्, धातोर्नुमागमश्च । कृन्तत्रमिति । नुमि रूपम् । भृमृदृशि - यजि । मृञ् भरणे, मृड् प्राणत्यागे, दृशिर् प्रेक्षणे, यज देवपूजादौ, पर्व पूरणे, डु पचष् पाके, श्रम गत्यादिषु, तमु काङ्क्षायम्, णम प्रहृत्वे शब्दे, · माह पतत्रं चेति । गडे: । गड सेचने, अस्मादत्रन्त्याद्द्वकारस्य ककारादेशश्च । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । वृञः । वृञ् वरणे अस्मादत्रन् चित्स्यात् चित्त्वादन्तोदात्तः । 'नधी वधी वरत्रा स्यात्' इत्यमरः । ' वरत्रायां दार्वानह्यमानः ' इत्यादौ चित्स्वरः स्पष्टः । सुविदेः कत्रः । विद ज्ञाने । इह कत्रन्निति विद्वं केचित्पठन्ति तत्प्रामादिकम् । 'बृहस्पतेः सुविदत्राणि राध्या' इत्यादौ नित्स्वरादर्शनात् । कृदुत्तरपदप्रकृतिखरेण प्रत्ययस्वरस्यैव दर्शनाचेत्याहुः । कृतेः । कृती छेदने, अस्मात्क्रत्रः स्याद्धातोर्नुमागमश्च | 'धन्व च यत्कृन्तत्रं च' इति मन्त्रे कृन्तत्रं कर्तनीयमरण्यमिति वेदभाष्यम् । भृमृ । भृञ् भरणे, मृङ् प्राणत्यागे, दृशिर् प्रेक्षणे, यज देवपूजादौ, पर्व पूरणे, डुपचष् पाके, श्रम गतौ, तमु काङ्क्षायाम्, राम प्रवे शब्दे च, हर्य गतिकान्त्योः । दशपातु मृदृशीरिति पठित्वा दृड् श्रादरे द्रियते दरतः शेते शयत इत्युदाहृतम् । तन्न । 'रुशन्तमनिं दर्शतं बृहन्तम्', 'तरणिर्विश्वदर्शतः' 'दैव्यो दर्शतो रथः' इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात् । 'भरतो नाट्यशास्त्रे
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy