________________
प्रकरणम् ६७ ]
बालमनोरमा-तस्वबोधिनीसहिता ।
[ २३३
स्तुवः क्य्यश्छन्दसि । 'स्तुषेय्यं पुरुवर्चसम्' । ३८० राजेरन्यः । राजन्यो वह्निः । ३८९ शृरम्योश्च । शरण्यम् । रमय्यम् । ३८२ अर्तेर्निश्च । अरण्यम् । ३८३ पर्जन्यः | 'पृषु सेचने' षस्य जः । 'पर्जन्यः शक्रमेघयोः' । ३८४ वदेरान्यः । ' वदान्यस्यागिवाग्मिनोः' । ३८५ अमिनक्षिय'मुख्यवर्यवरेण्याश्च' इत्यमरकोशः । स्तुवः क्लेय्यश्छन्दसि । ष्टुब् स्तुतौ, अस्मात् छन्दसि क्सेय्यप्रत्यय इत्यर्थः । स्तुषेय्यमिति । कित्त्वान्न गुणः, प्रत्ययावयवत्वात्षत्वम् । रराजेरन्यः । राज़ दीप्तौ श्रस्मादन्यप्रत्ययः । राजन्यो वह्नि · रिति । 'मूर्धाभिषिक्तो राजन्यः' इति क्षत्रियवाची तु 'राजश्वशुरायत्' इति यत्प्रत्यये बोध्यः । शृरम्योश्च । शृ हिंसायाम्, रमु कोडायाम्, आभ्यामन्यप्रत्ययः स्यात् । शरण्यं रमरायमिति । रषाभ्यामिति णत्वम् । श्रतैर्निश्च । ऋ गतौ श्रस्मादन्यप्रत्ययः, स च निदित्यर्थः । नित्त्वं खरार्थम् । अरण्यमिति । अन्यप्रत्यये गुण इति भावः 'अटव्यरण्यं विपिनम्' इत्यमरः । पर्जन्यः । इत्थं निपात्यत इत्यर्थः । निपातनमेवाह पृषु सेचन इति । अस्मादन्यप्रत्ययः, षकारस्य जकारः, लघूपधगुण इति भावः । जकारेण व्यवधानान्न णत्वम् । वदेरान्यः । वद व्यक्तायां वाचि, अस्मादान्यप्रत्यय इत्यर्थः । वदान्य इति । ' स्युर्वदान्यस्थूललक्ष्यदानशौराडा बहुप्रदे' इत्यमरः । अमिनक्षिय जिवधिपतिभ्योऽत्रन् । अम गत्यादिषु, नक्ष
प्रयोगाद्दिधिषाय्य इत्येव सूत्रं युक्तमिति प्रामाणिकाः । वृञः । वृञ् वरणे । वरेण्यः श्रेष्ठः । स्तुवः । ष्टुञ् स्तुतौ । स्तुषेय्यं स्तोतव्यम् । पुरुवर्चसं बहुरूपमिति वेदभाष्यम् । स्तुवः केव्य इति पठित्वा कित्वाद् गुणाभावे उवङि सति स्तुवेय्यः पुरन्दर इत्युदाहरन् उज्ज्वलदत्तस्तु उदाहृतश्रुतितद्भाष्यादिविरोधादुपेदयः । तस्मादिह क्सेय्यप्रत्यं पठन् दशपादी वृत्तिकृदेव ज्यायानित्याहुः । राजेः । राजू दीप्तौ । क्षत्रियजातौ तु 'राजश्वशुरायत् -' इति यत्प्रत्यये राजन्य इत्यन्तस्वरितः - । शूरम्योः । हिंसायाम्, रमु क्रीडायाम् श्रभ्यामन्यः स्यात् । तैः । ऋतौ अस्मादन्यः स च नित् । 'अटव्यरण्यं विपिनम्' इत्यमरः । पर्जन्यः । पृषु सेचने षस्य जः । 'पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः' इति मेदिनी । वदेः । वद व्यक्तायां वाचि । अजयकोशस्थमाह वदान्य इति । श्रमिनक्षि । श्रम गत्यादिषु, नक्ष गतौ, यज देवपूजादौ वध हिंसायाम्, पत्लृ गतौ । नक्षत्रमिति । 'नम्राण्नपात् -' इति सूत्रे नमः प्रकृतिभावेन नक्षत्रमिति साधितं तत्तु व्युत्पत्त्यन्तरमिति बोध्यम् । यजत्रमग्निहोत्रमिति प्राञ्चः । वस्तुतस्तु यजत्रो यष्टव्यदेवता । 'संते वायुवतेन गच्छतां सं यजत्रैरङ्गानि ' इति मन्त्रे तथैव व्याख्यातत्वात् । श्रमरकोशस्थ.
1