________________
२३२ ]
सिद्धान्तकौमुदी। [ उणादि. मत्स्ययोः' । लोहितं रकम् । ३७५ पिशेः किश्च । पिशितं मांसम् । ३७६ श्रृंदतिस्पृहिगृहिभ्य आय्यः । श्रवाय्यो यज्ञपशुः। दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी। ३७७ दिधिषाय्यः। दधातेत्विमिस्वं बुक्च । 'मित्र इव यो दिधिषाय्यः' । ३७८ वृत्र एण्यः। वरेण्यः। ३७६, न्प्रत्यय इत्यर्थः । श्येत इति । इतनि श्राद्गुणः। वर्णभेदाविति । 'पालाशो हरितो हरित्' 'शुक्लशुभ्रशुचिश्वेत' इति चामरः । रुहे रश्च लो वा । रुह बीजजन्मनि, अस्मादितन् स्यात् । धातुसंबन्धिरेफस्य लकारो वेत्यर्थः । रोहित इति। 'रोहिताश्चमरो मृगाः' 'रोहितो मद्गुरः शालः' 'लोहितो रोहितो रक्तः' इति चामरः । पिशेः किच्च । पिश अवयवे, अस्मादितन् स्यात् स च किदित्यर्थः । पिशितमिति । कित्त्वान्न लघूपधगुणः । श्रदक्षिस्पृहिगृहिभ्य आय्यः। श्रु श्रवणे, दक्ष वृद्धौ, स्पृह हिंसायाम् , गृहू ग्रहणे, एभ्य आय्यप्रय यः स्यात् । अत्र 'स्मृहिगृहि-' इति रायन्तौ । ताभ्यामाय्यप्रत्यये अयामन्तेति गरयादेश इति भावेनोदाहरति स्पृहयाय्य इति दिधिषाय्यः । इत्थं निपात्यत इत्यर्थः । निपातन प्रकारमेवाह दधातेरिति । डु धाञ् धारणपोषणयोरित्यस्मादाय्यप्रत्ययः द्वित्वमाकारस्येत्वं षुक् च निपात्यत इत्यर्थः । दिधिषाय्य इति प्रयोगस्थलमाह मित्र इवेति । वृन एण्यः । वृञ् वरणे, अस्माद् एण्यप्रत्ययः । गुणे वरेण्य इति रूपम् । श्वेतविशदश्येतपाण्डराः' इत्यमरः । रुहेः । रुह बीजजन्मनि प्रादुर्भावे च । अस्मादितन् । 'रोहितं कुङ्कुमे रक्ते ऋजुशकशरासने । पुंसि स्यान्मीनमगयोमेंदे रोहितकद्रुमे' इति मेदिनी । 'लोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने। पुमान् नदान्तरे भौमे वर्णे च त्रिषु तद्वति' इति च । पिशः । पिश अवयवे । अयं दीपनायामपि । अस्मादिनन्स्यात्स च कित् । पिशितं मांसम् । 'मांस्या स्त्री' इति मेदिनी । मांस्या जट मांस्याम् । तथा च 'जटा च पिशिता पेशी' इति धन्वन्तरिः । श्रुदति । श्रु श्रवणे, दक्ष वृद्धौ, स्पृह ईसायाम् , गृह ग्रहणे, चुरादावदन्तौ । 'उद्यतस्रचे भवसि श्रवाय्यः' इति मन्त्रे अवाय्यो मन्त्रैः श्रवणीय इति वेदभाष्यम् । 'दक्षाय्यो यो दम आस नित्यः' इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः । स्पृहयाय्यः । देधिषाय्य इति । डुधाञ् धारणपोषणयोः । 'अयामन्ता-' इति णेरयादेशः । एवं गृहयाय्य इति । उज्ज्वलदत्तस्तु दिधिषाय्य इति सूत्रं पठित्वा दिधिपूर्वास्यतेराय्यः, षत्वं च । दधिषाय्यो घृतमिति व्याख्यत् । दशपादीवृत्तिकारस्तु धिषु शन्दे अस्य द्वित्वं गुणाभावः अत्वं चाभ्यासस्य निपात्यत इत्याह, प्रसादकारादयोऽप्येवमेवाहुस्तदेतत्सर्व प्रामादिकम् । “मित्र इव यो दिधिषाय्योऽभूत्' इति वैदिक