________________
२३० ] सिद्धान्तकौमुदी। [ उणादि. कबुरः । वातः । अन्तः । दन्तः। 'बोतः स्यादश्रुचिह्नयोः' । 'पोतो बालवहित्रयोः' । धूर्तः । बाहुलकात्तु सेर्दीर्घश्च । तुस्तं पापं धूलिर्जटा च। ३६७ नव्याप इद् च । नापितः। ३६८ तनिमृङ्भ्यां किञ्च । ततम् । मृतम् । ३६६ अअिघृसिभ्यः कः। प्रकम् । घृतम् । सितम् । ३७० दुतनिभ्यां तत्र भवो मयः । दिगादित्वाद्यत् । धूर्त इति । तनि कृते 'लोपो व्योर्वलि' इति वलोपः, हलि चेति दीर्घः । नब्याप इद च । नञि उपपदे प्राप्त व्याप्तावित्यस्मात् तन्प्रत्ययः, इडागमश्चेत्यर्थः नापित इति । बाहुलकान्नओ नलोपाभावः। 'क्षुरी मुण्डी, दिवाकीर्तिनापितान्तावसायिनः' इत्यमरः । तनिमृङ्भ्यां किञ्च । तनु विस्तारे, मृङ् प्राण त्यागे, आभ्यां तन्स्यात् , स च किदित्यर्थः । ततमिति । कित्त्वादनुनासिकलोपः। 'ततं वीणादिकं वाद्यम्' इत्यमरः। अञ्जिसिभ्यः क्तः । एत इति । एतः कर्बुर भागते । अन्तःस्वरूले नाशे ना न स्त्रीशेषेऽन्तिके त्रिषु' इति च । 'दन्तोऽद्रिकटके कुळे दशने चौषधौ स्त्रियाम्' इति च मेदिनी । 'लोतमश्रुणि चोरिते' इति विश्वः । 'तकवतू निष्ठा' इति सूत्रे लोतो मेष इति कैयटः । 'पोतः शिशौ वहिने च' इति विश्वमेदिन्यौ। धुर्त इति । 'लोपो व्योर्वलि' इति वलोपः 'राल्लोपः' इत्यनेन लोपस्तु विन्तीत्यननुवृत्तिपक्षे बोध्यः। 'हलि च' इति दीर्घः ।धूतं तु खण्डलवणे धत्तुरे ना शठे त्रिषु' इति मेदिनीतूस्तमिति । तुस खण्डन इत्यस्मात्तन् । नञ्या । प्राप्लु व्याप्ती अस्मान्नव्युपपदे तनस्यादिडागमश्व बाहुलकानमो नलोपाभावः । तनि । तनु विस्तारे, मृङ् प्राणत्यागे, आभ्यां तप्रत्ययः स्यात्स च कित् । कित्त्वादनुनासिकलोपः । 'तलं वीणादिकं वाद्यम्' इत्यमरः । 'अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् । क्लीबं वीणादिवाये। स्यात्पुंल्लिङ्गस्तु समीरणे' इति मेदिनी । 'मृतं तु याचिते मृत्यो क्लीबं मृत्युमति त्रिषु' इति च। अञ्जि । अजू व्यक्तिम्रक्षणादौ, घृ क्षरणदीप्त्योः, षिञ् बन्धने एभ्यः क्तः स्यात् । निष्ठासंज्ञात्वे तस्य न भवति । उणादीनामव्युत्पन्नवादाहुल काद्वा। अन्यथा 'निष्ठा च घजनात्' इत्यायुदात्तत्वं स्यादिति 'वक्तवतू निष्ठा' इति सूत्रे कैयटः । अक्तं परिच्छिन्नम् । अतः परिमाणवाचक इति भाष्यस्य कैयटन तथा व्याख्यातत्वात् । 'अक्तं व्याप्ते च संकुले' इति विश्व इत्युज्ज्वलदत्तेनोक्तम् , तच्च लिपिभ्रमप्रयुनम् । विश्वकोशे हि 'व्यस्तं व्याप्ते च संकुले' इति स्थितत्वात् । मेदिन्या वकारादिप्रक्रमे 'व्यस्तं तु व्याकुले व्याप्ते' इत्युक्तम् । घृतमाज्ये जले क्लीबं प्रदप्तेि त्वभिधयेवत्' । 'सितमवसिते च बद्धे धवले त्रिषु शर्करायां स्त्री' इति मेदिनी । बाहुलकाद् ऋगतावित्यस्मात् कः । 'ऋतमुञ्छशिले जले । सत्ये दीप्ते पूजिते