________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२६ बवाणकं दात्रम् । धवाणको वातः। शिवाणकः श्लेष्मा । पृषोदरादित्वात्पक्ष कलोपः । 'शिवाणं नासिकामले' । 'धाणको दीनारभागः' । ३६४ उल्मुकदविहोमिनः । उष दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदकारम् । हणा. तेविः दर्विः। जुहोतेर्मिनिः होमी। ३६५ ह्रियः कुनश्च लो वा । होकः, होकुः बजावान् । ३६६ हसिमृग्रिएवाऽमिदमिलूपूधुर्विभ्यस्तन् । दशभ्यखन् स्यात् । 'तितुत्र-' (सू ३९६३) इति नेट् । हस्तः । मतः । गतः । एतः छेदने, धूञ् कम्पने, शिघि आघ्राणे, डु धाञ् धारणपोषणयोः, एभ्य प्राणप्रत्यय इत्यर्थः । शिवाणकमिति । इदित्त्वान्नुम् । उल्मुकदर्विहोमिनः। उल्मुक, दर्वि, होमी इति त्रयोः निपात्यन्त इत्यर्थः । निपातनमेवाह उष दाह इति । ननु तर्हि षकारोऽपि श्रूयते इत्यत आह षस्य ल इति । प्रत्ययमाह मकप्रत्ययश्चेति। निपात्यत इति शेषः । 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः । दर्विरित्यत्राह दृणातेरिति । 'दर्विः कम्बि: खजाका च' इत्यमरः। होमीत्यत्राह जुहोतेरिति । ह्रियः कुक् रश्च लो वा । ह्री लजायामस्मात्कुक्प्रत्ययः स्यात् , धातुसंबन्धिरेफस्य लकारश्च वेत्यर्थः । ह्रीकुरिति । कित्त्वाद् गुणनिषेधः । हसिमृग्रिएवामि । हसे हसने, मृङ् प्राणत्यागे, गृ निगरणे, इण् गतो, वा गतिगन्धनयोः,श्रम गत्यादिषु, दमु उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम् , एभ्यो धातुभ्यस्तन्प्रत्ययः । हस्त इत्यादौ वलादिलक्षणेटमाशङ्कयाह तितुत्रेति नेडिति । तनः कित्त्वाभावाद्दन्त इत्यादौ 'अनुनासिकस्य किझलो:-' इति दी? न । मत इति । भूलोक इत्यर्थः । भयंकरः । 'भयानकः स्मृतो व्याघ्र रसे राहौ भयंकरे' इति मेदिनी । प्राणको। लूञ् छेदने, धूञ् कम्पने, शिघि आघ्राणे, डुधाञ् धारणपोषणयोः । हारावलीस्थमाह शिवाणमिति । 'शिवाणं कावपात्रे स्याल्लोहनासिकयोमले' इति विश्वः । 'शिवाणः फेनडिण्डीरो नकरेतश्च पिच्छिलः' इति विक्रमादित्यकोशः। उल्मुक। एते निपात्यन्ते। निपातनप्रकारमेवाह उष दाहे इत्यादि । हारावलीस्थमाह उल्मुकमिति । 'दविः कम्बिः खजाका च' इत्यमरः । ह्रियः । ह्री लजायामस्मात्कुक्प्रत्ययः स्यात् । ककारो गुणनिषेधार्थः । हसिः । हसे हसने, मृङ् प्राणत्यागे, गृ निगरणे, इण गती, वा गतिगन्धनयोः, श्रम गत्यादिषु, दमु उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम् । 'हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । ऋक्षे केशात्परो वाते' इति मेदिनी । अत्रायमर्थः-केशवाचकात्परो यो हस्तशब्दः स समूहवाची। तथा च केशहस्तशब्दः केशसमूहशब्दपर्याय इति । मतों भूलोकस्तत्र भवो मयः। दिगादेराकृतिगणत्वायत् । 'गतस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे' इति मेदिनी।