SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २२७ 1 मतिका ज्ञेया भम्भराली च सा मता' । ३५४ पते रश्च लः । पप्सलः पन्थाः । ३५५ तन्यृषिभ्यां क्सरन् । तसरः सूत्रवेष्टनम् । ऋक्षरः ऋत्विक् । ३५६ प्रीयुकणिभ्यां कालन्ह्रस्वः संप्रसारणं च । प्रीयुः सौत्रः । प्रियालो वृक्षभेदः । कुणालो देशभेदः । ३५७ कटिकुषिभ्यां काकुः । कटाकुः पक्षी । कुषाकु'मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु' इत्यमरः । पते रश्च लः । पत्लृ गतौ, अस्मात् सरः स्यात्, रेफस्य लश्चेत्यर्थः । पत्सल इति रूपम् । तन्यृषिभ्यां क्लरन् । तनु विस्तारे, ऋषी गतौ, आभ्यां क्सरन्प्रत्यय इत्यर्थः । तसर इति । प्रत्ययस्य कित्त्वादनुदात्तो देशेत्यादिनाऽनुनासिकलोपः । ऋषधातोः ऋक्षर इति रूपम् । कित्त्वान्न गुणः । कत्वं षत्वम् । प्रीयुकणिभ्याम् । प्रीयुधातोर्धातुपाठे प्रदर्शनादाह सौत्र इति । कण शब्दे । श्राभ्यां कालन्प्रत्ययः क्रमेण प्रीयुधातोर्हखः, कणधातोः संप्रसारणं चेत्यर्थः । प्रियाल इति । हखे रूपम् । कुणाल इति । संप्रसारणे वकारस्योकारे पूर्वरूपे च रूपम्, 'राजादनं प्रियालः स्यात्सन्नकदुर्धनुः पटः' इति वनौषधिवर्गे श्रमरः । कटिकुषिभ्यां काकुः । कटे वर्षावरणयोः, कुष निष्कर्षे, , कित्स्यात् । कृसरः स्यादित्यादि हारावलीस्थम् । 'धूसरी किन्नरीभेदे ना खरे त्रिषु पाण्डुरे' इति मेदिनी । 'मत्सरा मक्षिकायां स्यान्मात्सर्यको धयोः पुमान् । असत्यपरसंपत्तौ कृपणे चाभिधेयवत्' इति च । 'मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु' इत्यमरः । ' अथ मत्सरः । असत्य पर संपत्तौ मात्सर्ये कृपणे क्रुधि' इति विश्वः । वेदे तु मदी हर्षे इति योगार्थं पुरस्कृत्य प्रयुज्यते ' इन्दुमिन्द्राय मत्सरम् ' । 'तं सिन्धवो मत्सर मिन्द्रियाणाम्' इत्यादि । समत्सरं हर्षहेतुमिति तद्भाष्यम् । पतेः । पत्लु गतावस्मात्सरः स्याद्रेफस्य लश्च । तन्यृषिः । तनु विस्तारे, ऋषी गतौ । श्रमरोक्तिमाह तसर इति । कित्त्वाद् 'अनुदात्तोपदेश -' इत्यादिनानुनासिकलोपः । ऋक्षर ऋत्विगिति । 'ऋक्षरं वारिधारायामृतरस्त्वृत्विजि स्मृतः' इति मेदिनी । 'अनृक्षरा ऋजवः सन्तु पन्थाः' इति मन्त्रस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम् । पीयुक्वणिभ्याम् | अगरण इति दण्डके क्वणिः पय्यते स च शब्दार्थकः, श्राभ्यां कालन् स्यात् यथाक्रमं ह्रस्वः संप्रसारणं च । 'राजादनः प्रियालः स्यात्' इत्यमरः । 'पियालः स्यात्प्रियालवत्' इति द्विरूपकोशः बाहुलकाद्भजेरपि कालन् । कित्त्वान्नलोपः । न्यक्कादित्वात्कुत्वम् | भगालं नमस्तकम् । मत्वर्थे इनिः । ' चण्डीकान्तो भगाली च लेलिहानो वृषध्वजः' इति राजशेखरः । कठिकुषि । कठ कृच्छ्रजीवने, कुष निष्कर्षे । 'कृषाकुः कपिवह्नयर्कै ना परोत्तापिनि त्रिषु' इति मेदिनी । उज्ज्वलदत्तस्तु कटिकषिभ्यामिति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy