SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी। [ उणादि. गृत्सा कामदेवः । पक्षः। ३५० अशेः सरः। अक्षरम् । ३५१ वसेश्च । वत्सरः । ३५२ सपूर्वाश्चित् । संवत्सरः । ३५३ कृधूमदिभ्यः कित् । बाहुखकाच षत्वम् । 'कृसरः स्यात्तिलौदनम्। धूसरः । मस्सरः । 'मत्सरा अभिकालायाम्, पण व्यवहारे स्तुती च, श्राभ्यां सप्रत्ययः, धातोरन्त्यस्य क्रमेण दकारककारी चादेशौ स्त इत्यर्थः । गृत्स इति । किदित्यनुवर्तनान गुणः । धकारस्य दकार आदेश इति भावः । ननु धकारस्य खरि चेति चत्वेन तकारे गृत्स इति रूपसिद्धौ किमर्थमेवं दकारविधिप्रयास इति चेत्, अत्राहुः 'खरि च' इति चर्वस्यासिद्धत्वाद् 'एकाचो बशो भष्-' इति भष्भावः प्रसज्येत, तदर्थ दकारविधिरिति । प्रक्रियालाघवाय तकार एव तु न विहितः 'चयो द्वितीया-' इति पक्षे थकारप्रसंगात् । दकारविधाने तु चत्वस्यासिद्धत्वान्न भवति । पक्ष इति। पणधातो रूपम् । कात्पर. त्वात्षत्वम् । अशः सरः। अशू व्याप्ती, अस्मात्सर प्रत्यय इत्यर्थः। अतरमिति । व्रश्चेत्यादिना षत्वं षढोरिति कत्वम् , सस्य षत्वम् । वसेश्च । वस निवासे, अस्मात् सरप्रत्यय इत्यर्थः । वत्सर इति । 'सः स्यार्धधातुके' इति तत्वम् । संपूर्वाच्चित् । समित्युपसर्गपूर्वकाद्वरोर्जायमानः सरप्रत्ययः चिदिएर्थः । चित्त्वप्रयोजनं तु अन्तोदात्तखरः । अत्र सपूर्वादिञ्चिति स्वारसिकः पाठः । समितरपूर्वादपि सरप्रत्ययदर्शनात् । 'संवत्सरोऽसि परिवत्सरोऽसि इलावत्सरोऽसि इद्वत्सरोऽसि' इत्यादौ यथा । कृधूमदिभ्यः कित् । ड कृञ् करणे, धूञ् कम्पने, मदी हर्षे, एभ्यः सरप्रत्ययः, स च कित्स्यादित्यर्थः । ननु कृसर इत्यत्र इणः परत्वात् प्रत्ययावयवत्वाच षत्वं कुतो नेत्यत आह बाहुलकादिति । कृसरशब्दार्थ विवृण्वन् अमरकोशमाह कृसरः स्यादिति । धूसर इति । कित्त्वान्न गुणः । 'ईषत्पाण्डुस्तु धूसरः'। मत्सर इति। परतोन्दे बले सखिसहाययोः चुल्लीरन्ध्रे पतत्रे च राजकुञ्जरपार्श्वयोः' इति विश्वमेदिन्यो । अशः। अशु व्याप्ती 'वश्च-' इत्यादिना षत्वादिकार्यम् । 'अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः' इति हेमचन्द्रः । 'अशेः सरन्' इत्युज्ज्वलदत्तादिपाठस्तु प्रामादिकः, नित्स्वरापत्तेः । इष्यते तु प्रत्ययस्वरेणाक्षरशब्दस्य मध्योदात्तत्वम् । 'ऋचो अक्षरे परमे व्योमन्' इत्यादिऋमन्त्रेषु, 'त्रीणि च शतानि षष्टिश्चाक्षराणि' इति यजुषि च तथैव पाठात् । अत एवाश्नोतरू सरोऽक्षरमिति द्वितीयाहिकान्ते भाष्यकृतोक्तम् । वसेश्च । वस निवासे, अस्मादपि सरः स्यात् । 'सः स्यार्धधातुके इति तत्त्वम् । सपूर्वाञ्चित् । पूर्वसहिताद्वसतेः सरः स्यात्स च चित् । चित्त्वादन्तोदात्तः । 'इद्वत्सराय परिवत्सराय' । संपूर्वादिति पाठान्तरम् । तच्च लक्ष्यविरोधादुपेक्ष्यम् । कृधू । डुकृञ् करणे, धून कम्पने, मदी हर्षे, एभ्यः सरः
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy