________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२५ मुदकम् । अहं नक्षत्रम् । ३४७ ऋषेर्जातौ । ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने । ऋक्षमुक्नं च नक्षत्रे' इति विश्वः । ३४८ उन्दिगुधिषिभ्यश्च । उत्सः प्रस्रवणम् । गुस्सः स्वबकः । कुत्तो जठरम् । ३४६ गृधिपण्योर्दको च । अक्ष इति । व्रश्चेति षत्वम् , कत्वम् , षत्वमिति भावः । स्नुवश्चि । स्नु प्रस्रवणे, श्रो व्रश्चू छेदने, कृती छेदने, ऋषी गतौ, एभ्यः सप्रत्ययः स्यात् , स च कित्स्या. दित्यर्थः । स्नुषेति । कित्त्वान्न गुणः । वृक्ष इति । व्रश्चधातोः सनि तस्य कित्त्वाद् अहिज्येति संप्रसारणे, स्कोरिति सलोपः, चोः कुरिति कुत्वम् , सस्य षत्वे च रूपम् । षेर्जाती।ऋषी गतावित्यस्माद् जाती सप्रत्ययः स्यात् , स च किदित्यर्थः। पूर्वसूत्रेणैव सिद्धे इदं सूत्रं नियमार्थम्-ऋषेतिावेव सप्रत्यय इति । तेन यौगिके न भवति। अन्येभ्यस्तु उभयत्रापि भवति । उन्दिगुधिकुषिभ्यश्च । उन्दी क्लेदने, गुध रोषे, कुष निष्कर्षे, एभ्यः सः कित्स्यादिति भावः । उत्स इति । अनिदितामिति नलोपः। 'उत्सः प्रस्रवणं वारि' इत्यमरः । गुत्स इति । खरि चेति चर्वम् । कुक्ष इति । षढोरिति कः । गृधिपण्योर्दकौ च । गृधु षत्वादिकार्यम् । 'अथाक्षमिन्द्रिये । ना द्यूताझे कर्षचके व्यवहारे कलिद्रुमे' इत्यमरः । 'अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राक्षयोः स बिभीतकतरावपि । चके कर्षे पुमान् क्लीबं तुत्थसौवर्चलेन्द्रिये' इति मंदिनी । स्नुवश्चिस्नु प्रस्रवणे, श्रोत्रश्चू छेदने, कृती छेदने, ऋषी गती, एभ्यः सः कित्स्यात् । स्नुषा पुत्रवधूः । वृक्ष इति । सस्य कित्वाद् 'अहिज्या-' इति संप्रसारणम् । 'ऋक्षः पर्वतभेदे स्याद्भल्लुके शोणक पुमान् । कृतवेधेऽप्यन्यलि नक्षत्रे पुनपुंसकम्' इति मेदिनी । ऋषेर्जाती । पूर्वसूत्रणव सिद्ध ऋषर्जातावेवेति नियमार्थ सूत्रम् । तेनान्येभ्यस्त्रिभ्यः कैवलयौगिकत्वेऽपि सप्रत्ययो भवति । उन्दिगुधि । उन्दी क्लेदने, गुध रोषे, कुष निष्कर्षे, एभ्यः सः कित्स्यात् । 'अनिदिताम्-' इति नलोपः। 'उत्सः प्रस्रवणं वारि' इत्यमरः । 'गुत्सः स्यात्स्तबके स्तम्बे हारभिप्रन्थिपणयोः' इति मेदिनी। 'गुच्छश्च गुत्सो गुच्छो गुलुच्छवत्' इति द्विरूपकोशात् । 'स्याद् गुच्छः स्तबके स्तम्बे हारभेदकलापयोः' इति चवर्गद्वितीयान्ते मेदिनीकोशाच्च । गृधि । गृधु श्रमिकाक्षायाम् , पण व्यवहारे स्तुती च । ननु गृधेश्चर्केन गृत्स इति सिद्धे दकारविधानं व्यर्थमिति चेत् । मैवम् । चर्वस्यासिद्धत्वेन 'एकाचो बश:-' इति भष्भावप्रसङ्गात् । न चैवमपि प्रक्रियालाघवाय तकार एव विधीयतामिति शङ्कयम् , 'चयो द्वितीया-' इति पने तकारस्य थकारापत्तेः । 'पक्षो मासार्धके पावें प्रहे साध्यविरोधयोः । केशादेः