________________
२२४) सिद्धान्तकौमुदी। [उणादि. वरसः । वरसं वक्षः । हंसः। 'कंसोऽस्त्री पानभाजनम्'। कक्षम् अरण्यम् । ३४३ प्लुषेरच्चोपधायाः। पक्षः। ३४४ मनेर्दीर्घश्च । मांसम् । ३४५ अरोर्देवने । अक्षः। ३४६ स्नुवश्चिकृत्यृषिभ्यः कित् । स्नुषा । वृत्तः। कृरस. कमु कान्तौ,कष हिंसायाम् , एभ्यः सप्र यय इत्यर्थः ॥वर्षमिति प्रत्ययावयवत्वात्षत्वम् । तर्षमिति । 'तर्षो जग्धिस्तु भोजनम्' इत्यमरः । अत्रापि गुणे कृते षत्वम् । कक्षमिति । षढोरिति कत्वम् । प्लुषेरच्चोपधायाः । प्लुष दाहे, अस्मात्सः स्यात् , उपधाया अकारश्चेत्यर्थः । 'प्लक्षश्च तिन्तिडी चिच्चा' इत्यमरः । मनेदर्दी. र्घश्च । मन ज्ञाने, अस्मात्सप्रत्ययः, धातोश्चेत्यर्थः । मांसमिति । 'नश्चापदान्तस्य-' इत्यनुस्वारः । अशेर्देवने । अशू व्याप्तौ, अस्मात्सप्रत्ययः देवने वाच्ये इत्यर्थः । नतरणयोः, वद व्यक्तायां वाचि, हन हिंसागत्योः, कमु कान्ती, कष हिंसायाम् । वर्सम् । तर्सम् इति । 'तितुत्र-' इति नेट् । षत्वं तु न भवति बाहुलकेन षत्वे कर्तव्ये प्रत्ययसंज्ञाया अप्रवृत्तेः । कक्षशब्दे तु षत्वं भवत्येव । एतच्च भाष्यकैयटादिपर्यालोचनयोक्तम् । कथं तर्हि सर्वरप्युणादिवृत्तिकारैरिह षत्वमुदाहृतमिति चेत् । अत्राहुः-अस्तु भाष्यप्रामाण्याद् वर्स तसमिति दन्त्यपाठोऽपि साधुः । पक्ष तु षत्वमस्तु । बाहुलकलभ्यषत्वाभावस्य पाक्षिकत्वेऽपि बाधकाभावाद् वृषितृषिभ्यां घमि कृते ण्यन्तादेरचि 'घअर्थे कविधानम्' इति ण्यन्तात्कप्रत्यये वा कृते वर्षतर्षशब्दयोर्दुरित्वात् , अज्विधौ भयादीनामुपसंख्यानान्नपुंसके क्लादिनिवृत्त्यर्थमित्यत्र वर्षमित्याकरे उदाहृतत्वाच्च । तस्मादिह द्विरूपता फलितेति । 'वर्षोऽस्त्री भारतादौ स्याजम्बूद्वीपाब्दवृष्टिषु । प्राट्काले स्त्रियां भुम्नि' इति मेदिनी । 'तर्क लिप्सोदन्ययोः' इति च । 'पुत्रादौ तर्ण के वर्षे वत्सः क्लीबं तु वक्षस' इति त्रिकाण्डशेषः । 'सद्यो जातस्तु तर्णकः' । 'हंसः स्यान्मानसौकसि । निर्लोभनृपविष्णवर्कपरमात्मसु मत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे । तुरङ्गमप्रभेदे च' इति मेदिनी । 'कसोऽस्त्री तेजसद्रव्ये कांस्ये माने सुरेतरे' इति च । 'कंसो दैत्यान्तरे स्मृतः । कांस्ये च कास्यपात्रे च मानभेदे च कीर्तितः' इति विश्वः । 'कक्षा स्यादन्तरीपस्य पश्चादञ्चलपल्लवे । स्पर्धायां ना तु दोर्मूले कच्छवीरुत्तृणेषु च' इति मेदिनी । प्लुषेः । प्लुष दाहे, अस्मात्सः स्यादुपधाया अकारश्च । 'प्लक्षो जटी गर्दभाण्डद्वीपभित्कुञ्जराशने' इति मेदिनी। 'लक्षो द्वीपविशेष स्यात्पर्कटीगर्दभाण्डयोः । पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्तितः' इति विश्वः । मनः । मन ज्ञाने । 'मांसं स्यादामिषे क्लीबं ककोलीजटयोः स्त्रियाम' इति मेदिनी । अशेः । अशु व्याप्ती, अस्माद्देवने वाच्ये सः स्यात् । 'वश्वभ्रस्ज-' इत्यादिना