SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२३ चित् । चिस्वादन्तोदात्तः, अर्जुनं तृणम् । ३४० अर्तेश्च । अरुणः । ३४१ अजियमिशीभ्यश्च । 'वयुनं देवमन्दिरम्' यमुना। शयुनः अजगरः। ३४२ वृतृवदिहनिकमिकषिभ्यासः। वर्सम्। तर्सम् । 'तसः प्रवसमुद्रयोः'।' ऋज गतिस्थानार्जनोपार्जनेषु, अस्मादुनन् प्रत्ययः तत्संनियोगेन ऐजुक्चेत्यर्थः । अर्जुन इति । जकारेण व्यवधानान्न णत्वम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । अत्र णेरनिटीत्यनेनैव गोपे सिद्धे णिलुक् चेति लुम्विधानं चिन्त्यप्रयोजनमेव । न च प्रत्ययलक्षणेन प्राप्तं लघूपधगुणं वारयितुं लुग्विधानमावश्यकम् , लुकि तु न लुमतानस्येति निषेधान्न प्राप्तिरिति वाच्यम् , लुम्विधानेऽपि उननमाश्रित्य लघूपधगुणस्य दुरित्वात् । अथ यदि यथाकथंचिद् एतद्ग्रन्थसमर्थने आग्रहः, एवं वक्तव्यम् -अस्मिन्सूत्रे किदित्यनुवर्तेत, ततश्च उननः कित्त्वेन गुणो न भवति, लोपे तु स्यादेव गुण इति वैपरीत्ये पर्यवस्यतीति । एवं सति अर्जुन इति रूपमेव न सिध्येत् , तस्मात् किदिति नानुवर्तनीयमेव, लुम्विधानं च व्यर्थम् । तृणाख्यायाम्। तृणस्याख्या तृणाख्या, तस्यां सत्यां ऋजेर्जायमान उनन् चित्स्यादित्यर्थः । चित्त्वफलमाह चित्त्वादन्तोदात्त इति । अर्तेश्च । ऋ गतौ, अस्मादुनन्स्यात् , स च चित्स्यादित्यर्थः । अरुण इति । रषाभ्यामिति णत्वम् । 'अरुणो भास्करेऽपि स्याद् वर्णभेदेऽपि च त्रिषु' इत्यमरः । अजियमिशीभ्यश्च । अज गतिक्षेपणयोः, यमु उपरमे, शीङ् स्वप्न, एभ्य उनन् स्यात् , स च चिदित्यर्थः । वयुनमिति । अजेर्वी भावो गुणः अयादेशः । यमुनेति । 'यमुना शमनखसा' इत्यमरः । वृतृवदि । वृ वरणे, तृ प्लवनतरणयोः, वद व्यानायां वाचि, हन हिंसागत्योः, इति मध्यतालव्येषु विश्वः । लस चेति दन्त्यमध्यपाठस्तु प्रामादिकः । अर्जेः' ऋज गतिस्थानार्जनोपार्जनेषु, अस्मारण्यन्तादुनन् स्याद् णेश्च लुक् । इह 'णेरनिटि' इति णिलोपेनैव सिद्धे णिलुक् चेत्युकेः फलं चिन्त्यम । 'अर्जुनः ककुभे पार्थ कार्तवीर्यमयूरयोः। मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे वाप्य. र्जुनी गवि । उषायां बाहुदानद्यां कुट्टन्यामपि च क्वचित्' इति विश्वमेदिन्यो । अतश्च । ऋगतावस्मादुनन्स्यात्स च डित् । 'अरुणोऽव्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ। निःशब्दे कपिले कुछमेदे ना गुणिनि त्रिषु । अरुणातिविषाश्यामामञ्जिष्ठात्रिवृतासु च' इति मेदिनी । अजि । अज गतिक्षेपणयोः, यम उपरमे, शीङ स्वप्ने, एभ्य उनन् स्यात्स च डित् । अजेर्वीभावः । वीयते गम्यतेऽत्रेति वयुनम् । 'विश्वानि देव वयुनानि विद्वान्' इति मन्त्रे वयुनानि प्रज्ञानानीति वेदभाष्यम् । वैदिकनिघण्टौ प्रज्ञापये प्रशस्यपर्याये च वयुनशब्दः पठितः । 'यमुना शमनस्वसा' इत्यमरः । वृत् । वृ वरणे, तू प्रव
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy