________________
२२२ ] सिद्धान्तकौमुदी।
[ उणादिक्षिपणुतिः ।३३३ कृवृदारिभ्य उनन् । 'करुणो वृक्षभेदः स्यात्करुणा च कृपा मता' । वरुणः । दारुणम् । ३३४ त्रो रश्च लो वा । 'तरुणस्तलुनो युवा' । ३३५ क्षुधिपिशिमिथिभ्यः कित् । सुधुनो म्लेच्छजातिः। पिशुनः । मिथुनम् । ३३६ फलेगुंक्च । फल्गुनः पार्थः । प्रज्ञाद्यण । फाल्गुनः। ३३७ अशेर्लशश्च । लशुनम् । ३३८ अर्जेर्णिलुक्च। अर्जुनः । ३३६ तृणाख्यायां क्षिपणुरिति । अनुडो ङित्त्वाद् गुणाभावः । कृवृदारिभ्य उनन् । कृ विक्षेपे, वृञ् वरणे, दृ विदारणे ण्यन्तः, एभ्य उनन्प्रत्यय इत्यर्थ । त्रो रश्च लो वा। तृप्लवनतरणयोः, अस्माद् उनन् स्यात् , रेफस्य लकारो वेत्यर्थः । तरुण इति । उननि धातोर्गुणः । 'वयस्थस्तरुणो युवा' इत्यमरः । चुधिपिशिमिथिभ्यः कित्। क्षुध बुभुक्षायाम् , पिश अवयवे, मिथः सौत्रः, एभ्यः कित्स्यादित्यर्थः । शुधुन् इति। कित्त्वान्न गुणः । फलेर्मुक च। फल निष्पत्तौ, अस्मादुनन्स्यात् । धातोर्गुगागमश्वेत्यर्थः । फल्गुन इति । अर्जुन इत्यर्थः । ननु कथं फाल्गुन इत्यत आह प्रज्ञाद्यणिति । अशेर्लशश्च । अश भोजने, अस्मादुनन् धातोलशादेशश्चेत्यर्थः । लशुनमिति । 'लशुनं गुञ्जनारिप्रमहाकन्दरसोनकाः' इत्यमरः । अर्जेणिलुक्च । इति वा ङीष् । कन्युच् । क्षिप प्रेरणे, भू सत्तायाम् । 'क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गके इति मेदिनी। 'भुवन्युः स्यात्पुमान्भानौ ज्वलने शशलाञ्छने' इति विश्वमेदिन्यौ । अनुङ । एद अव्यक्के शब्दे । अस्मादनुप्रत्ययः स्यात् । क्षिपणुरिति । ङित्त्वाद् गुणाभावः । कृव । कृ विक्षेपे, वृञ् वरणे, दृ विदारणे, ण्यन्तः । 'करुणस्तु रसे वृक्षे कृपायां करुणा मता' इति विश्वमेदिन्यौ। वरुणस्तरुमेदेऽप्सु प्रतीचोपतिसूर्ययोः' इति विश्वः । 'दारुणं भीषणं भीष्मम्' इत्यमरः । 'दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे' इति मेदिनी। त्रो रश्च । तृ प्लवनतरणयोरस्मादुनन्स्यात् । 'तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु' इति मेदिनी । गौरादित्वान् ङीष् । 'तरुणी तलुनीति च' इति द्विरूपेषु विश्वः । क्षुधि । क्षुध बुभुक्षायाम्, पिश अवयवे । अयं दीपनायामपि । मिथिः सौत्रो धातुः । 'पिशुनो दुर्जनः खलः' इत्यमरः । 'पिशुनं कुङ्कुमे स्मृतम् । कपिवक्त्रे च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात्' इति मेदिनी । 'मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके' इति च। फले। फल निष्पतौ, अस्मादुनन् गुगागमश्च धातोः । ‘फल्गुनस्तु गुडाकेशे नदीजा. र्जुनभूरुहे । तपस्यसंज्ञमासे तत्पूर्णिमायां च फाल्गुनी' इति मेदिनी । फाल्गुन इति । ‘फल्गुनः फाल्गुनोऽर्जुने' इति द्विरूपकोशः। अशेः । अश भोजने अस्मादुनन् धातोलशादेशश्च । लशुनं महाकन्दः । 'लशुना लशुनं वेश्म कश्मलं विश्वमश्ववत्'