________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२१ स्थाद्वातपक्षिणोः' । यूका । धूको वायुः । नीको वृक्षविशेषः । ३२८ ह्रियो रश्च लो वा । 'हीका ह्रीका त्रपा मता' । ३२६ शकेरुनोन्तोन्त्युनयः । उन, उन्त, उन्ति, उनि, एते चत्वारः स्युः। शकुनः । शकुन्तः। शकुन्तिः। शकुनिः। ३३० भुवो। मिच् भवन्तिर्वर्तमानकालः। बाहुलकादवेश्च । अवन्तिः। वदेवदन्तिः । किंवदन्ती जनश्रुतिः'।३३१ कन्युच्क्षिपेश्च । चाद् भुवः। 'क्षिपण्युर्वसन्तः' इत्युज्ज्वलदत्तः। 'भुवन्युः स्वामिसूर्ययोः' । ३३२ अनुङ् नदेश्च । चारिक्षपेः । नदनुमघः । णी प्रापणे, एभ्यः कस्यादेषां दीर्घश्वेत्यर्थः । वीक इति । अजधातोः कनि प्रकृतेवीभावे, तस्य दीर्घत्वे दीर्घविधानसामर्थ्याद् गुणाभावः । यूकेति । कनि धातोर्दीर्घः । ह्रियो रश्च लो वा । ह्री लजायाम् , अस्मात्कन् , धातोर्दीर्धत्वं, रेफस्य लकारश्च वेत्यर्थः । ह्रीकेति । दीर्घविधानसामर्थ्याद् गुणाभावः । ह्रीकेति । रेफस्य लकारे रूपम् । शकेरुनोन्तोन्न्युनयः । शक्ल शक्ती, अम्माद् उन उन्त उन्ति उनि एते चत्वारः प्रत्ययाः स्युः । 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । भुवो झिच् । भू सत्तायामस्माद् मिच् स्यात् 'झोऽन्तः' इत्यन्तादेशः । भवन्तिरिति । अन्तादेशे गुणेऽवादेशे च रूपम् । अस्तिर्भवन्तिपरोऽप्यप्रयुज्यमानोऽस्तीति भाष्यम् । अवन्तिरित्यादिसिद्धपर्थमाह बाहुलकादिति । कन्युच् क्षिपेश्च । क्षिप प्रेरणे, चकाराद् भवतेरपि कन्युच् प्रत्यय इत्यर्थः । क्षिपण्युरिति । 'अटकुप्वाल्-' इति णत्वम् । भुवन्युरिति । कन्युचः कित्त्वाद् गुणामावे उवडादेशे च रूपम् । अनुङ नदेश्च । नद अव्यक्ते शब्दे । चकारात्क्षिपेरनुङ् स्यात् । ईडागमः । 'स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः' इति मेदिनी । अजि । अज गतिक्षेपणयोः, यु मिश्रणे, धूज कम्पने, णीञ् प्रापणे, एभ्यः कन् स्यादेषां दीर्घश्व । तत्सामर्थ्याद् गुणाभावः । अजेर्वीभावः । ह्रियः । ही लज्जायामस्मात्कन्धातोर्दीर्घत्वं च तत्सामर्थ्याद् गुणाभावः । शकेः । शक्ल शक्तौ । 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । 'शकुनस्तु पुमान्पक्षिमात्र प्रश्नविशेषयोः । शुभाशंसिनि. मित्ते च शकुन स्यान्नपुसकम्' इति मेदिनी। 'शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः' इति । 'शकुनिः पुंसि विहगे सौबले करणान्तरे' इति च । भुवः। भू सत्तायाम् । अस्मात् मिच् स्यात् । 'झोऽन्तः' 'कृदिकारात्-' इति ङीष् । भवन्ती लटः संज्ञा । भवन्तीति स्पष्टार्थः । तथा च 'अम्तिर्भवन्तीपरः प्रयोक्तव्यः' इति भाष्यम् । बाहुलकात्कमेरपि प्रत्ययादिलोपे घातोः कुशब्दादेशः । कुन्तिः । 'इतो मनुष्यजातेः' इति भीष् ‘कुन्ती पाण्डुप्रियायां च शलक्या गुग्गुलद्रुमे' इति मेदिनी अवन्तिरित्यादि। अव रक्षणे, वद व्यक्वायां वाचि, आभ्यामपि झिच् । वदन्तिरिति । 'कृदिकारात्-'