________________
२२० ]
सिद्धान्तकौमुदी। [ उणादि'एके मुख्यान्यकेवलाः' 'भेको मण्डूकमेषयोः' इति विश्वमेदिन्यौ । काकः । पाक: शिशुः । शक्कं शकलम् । अस्कः पथिकः शरीरावयवश्व । मर्कः शरीरवायुः । ३२४ नौ हः । जहातेः कन्स्यायो । निहाका गोधिका । ३२५ नौ सदेचि । 'निष्कोऽस्त्री हेनि तत्पने' । ३२६ स्यमेरीद् च । स्यमीको वल्मीकः वृक्षभेदश्च। इड् हस्व इति केचित् । स्यमिकः । ३२७ अजियुधूनीभ्यो दीर्घश्च । 'वीकः सातत्यगमने, मर्च शब्दे चुरादिः, एभ्यः कन्प्रत्ययः, स्यात् । नित्तं स्वरार्थम् । नौ हः । नानुपपदे ओ हाक् त्यागे इत्यस्मात् कन् स्यादित्यर्थः । 'निहाका गोधिका समे' इत्यमरः । नौ सदेर्डिच । नावुपपदे षद्लुधातोः कन्स्यात् , सच डिद्भवतीत्यर्थः । डिवाहिलोपः । षत्त्वं 'सदिरप्रतेः' इत्यनेन । निष्कमिति रूपम् । स्यमेरीट् च । स्यमु शब्दे अस्मात्कन्स्यात् , तस्य चेडागमः । स्यमीक इति रूपम् । अजियुधनीभ्यो। अज गतिक्षेपणयोः, यु मिश्रणे अमिश्रणे च, धून कम्पने, तीक्ष्णीकृत्येति व्याख्यातम् । 'भूकं छिद्रे च काले च' इति मेदिनी । 'मुष्को मोक्षकक्षे स्यात्संघाते वृषणेऽपि च' इति स एव । 'शुको व्याससुते कीरे रावणस्य च मन्त्रिणि। शिरीषपादपे पुंसि प्रन्थिपणे नपुंसकम् । वल्कं वल्कलशल्कयोः' इति च । 'उल्का । ज्वाला विभावसोः' इति सुभूतिचन्द्रः । इभि । इण् गती, निभी भये, कै शब्दे,
पा पाने, शल गती, अत सातत्यगमने । 'एकं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु' इति मेदिनी। काकः स्याद्वायसे वृक्षप्रभेदे पीठसपिणि । शिरोऽवक्षालने मानप्रभेदद्वीपभेदयोः । काका स्यात्काकनासायां काकोली काकजङ्घयोः । रहिकायां मलय्वां च काकमाच्यां च योषिति । काकं सुरतबन्धे स्यात्काकानामपि संहतो' इति मेदिनीविश्वप्रकाशौ । 'पाकः परिणती शिशौ । केशस्य जरसा शौक्लये स्थाल्यादौ पचनेऽपि च' इति मेदिनी । 'शल्कं तु शकले वल्के' इति च । मर्च इति सौत्रो धातुरिति बहवः । मर्च शन्दे चौरादिक इति 'मिदचोऽन्त्यात्परः' इति सूने कैयटः । 'मर्तो मत मर्चयति द्वयेन' इति मन्त्रे मर्चयति विधेयीकरोति भर्ल्सयति वेति वेदभाष्यम् । न चैवं हिलोपस्य स्थानिवद्भावेन कुत्वाभावान्मर्क इति न सिध्येदिति वाच्यम् , पूर्वत्रासिद्धे तदभावात् । शो तनूकरणे अस्मादपि बाहुलकात्कन् । शाको द्वीपान्तरेऽपि च । शक्ती द्रुमविशेषे च पुमान् हारीतके स्त्रियाम्' इति मेदिनी। नौ हः । श्रोहाक् त्यागे । अस्माभिशब्दे उपपदे कन्स्यात् । 'निहाका गोधिका समे' इत्यमरः । नौ सदेः । षद्लु विशरणे अस्मानिशब्दे उपपदे कन् स्यात्स चे डित् । डित्त्वाहिलोपः ।। 'सदिरप्रतेः' इति षत्वम् । 'निष्कमस्त्री साष्ट हेमशते दीनारकर्षयोः । वक्षोलंकरण हेममात्रे हेमपलेऽपि च' इति मेदिनी । स्यमे । स्यमु शब्दे अस्मात्कन्स्यात्तस्य च