________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । । [ २१६
चिकलिभ्यः कः । बाहुलकाच कस्ये संज्ञा । 'कर्को धवलघोटकः' । दाको दाता | धाको ऽनड्वानाधारश्च । राका पौर्णमासी । धर्कः । 'कल्कः पापाशये पापे दम्भे विकििट्टयोरपि' । ३२१ सृवृभूशुषिमुषिभ्यः कक् । 'सृक उत्पलवातयोः' । 'वृकः श्वापदकाकयो:' । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् | ३२२ शुक्रवल्कोल्काः । शुभेरन्त्यलोपः । शुकः । 'वदकं वल्कलमस्त्रियाम्' । 'उष दाहे', षस्य ल्लः | उल्का । ३२३ इरमीकापाशत्यतिमर्चिभ्यः कन् ।
★
कृष्णः' इत्यमरः । कृद।धारा चिकलिभ्यः । डुकृञ् करणे, डु दाज् दाने, डुधाञ् धारणपोषणयोः, रा दाने, अर्च पूजायाम्, कल शब्दसंख्यानयोः, एभ्यः कप्रत्ययः स्यादित्यर्थः । ननु कप्रत्ययावयवककारस्य 'लशक्कतद्धिते' इतीत्संज्ञा प्राप्नोतीत्यत आह बाहुलकादिति । 'पृष्ठयः स्यौरी सितः कर्कः' इत्यमरः । दाको दातेति । कर्तरि प्रत्ययादिति भावः । राकेति । 'पूर्णे राका निशाकरे' इत्यमरः । दाक धाक राक इत्यत्र यद्यपि 'केऽणः' इत्यनेन ह्रस्वः प्राप्नोति, तथापि बाहुलकान्न भवति । 'सृत्रुभूशुषिमुषिभ्यः कक् । सृ गतौ, वृज् वरणे, भू सत्तायाम्, शुत्र शोषणे, मुष स्तेये, एभ्यः ककूप्रत्यय इत्यर्थः । कित्त्वं गुणाभावार्थम् । सृक इति । शुकवकोल्का: । शुभ शुम्भ भाषणे, वल वज संवरणे, उप दाहे, एते कक्प्रत्ययान्ता निपात्यन्त इत्यर्थः । निपातनमेवाह । शुभेरन्त्यलोप इति । भलोप इत्यर्थः । कित्त्वान्न गुणः । ' ग्रन्थिपर्णं शुकं बर्हपुष्पं स्थौणेयकुक्कुरे' इत्यमरः । वल्कमिति । 'वल्कं वल्कलमस्त्रियाम्' इत्यमर: । उल्केति । 'प्राचिकोल्का पिपीलिका' इत्यमरः । इग्भीकापा । इय् गतौ, जि भी भये, कै शब्दे, पापाने, शल गतौ श्रुत
"
इत्यमरः । कृदा । डुकृञ् करणे, डुदाञ् दाने, डुधाञ् धारणपोषणयोः, रा दाने, अर्च पूजायाम्, कल गतौ । 'कर्कः कर्के तले वह्नौ शुक्लाश्वे दर्पणे घटे' इति विश्वमेदिन्यौ । 'राका नद्यन्तरे कंच्छां नवजातरजः स्त्रियाम् । संपूर्णेन्दुतिथौ' इति मेदिनी । 'राका तु सरिदन्तरे । राका नवरजः कन्या पूर्णेन्दुः पूर्णिनापि च' इति विश्वः । इह दा धारा एषां ‘केएः' इति ह्रस्वोऽपि बाहुलकात्संज्ञापूर्वक विधेरनित्यत्वाद्वा नेति बोध्यम् । 'अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ' इति विश्वमेदिन्यौ । 'कल्कोऽस्त्री घृततैलादिशेषे दम्भे बिभीतके । विकििट्टयोश्च पापे च त्रिषु पापाशये पुनः' इति मेदिनी । बाहुलकाद्रमेरपि कः । 'रङः कृपणमन्दयोः' इति मेदिनी । कपिलकादित्वाल्लत्वं टाप् । 'लङ्का रक्षःपुरीशाखाशाकिनी कुलटासु च' इति विश्वमेदिन्यौ । सृवृ । सृ गतौ, वृञ् वरणे, भू सत्तायाम्, शुष शोषणे, मुष स्तेये । सृक इति । 'सृकं संशाय पविमिन्द्र तिग्मम्' इति मन्त्रस्य वेदभाष्ये तु सृकं सरणशीलं पविं वज्रं संशाय सम्यक