SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६] सिद्धान्तकौमुदी। [उणादिध्युपो वक्त्रम् । ३०५ स्तुवो दीर्घश्च । स्तूपः समुच्छ्रायः। ३०६ सुशृभ्यां निश्च । चारिकत् । सूपः । बाहुलकादुत्वम् । शूर्पम् । ३०७ कुयुभ्यां च । कुर्वन्ति मण्डूका अस्मिन्कूपः । युवन्ति बध्नन्स्यस्मिन्पशुमिति यूपो यज्ञस्तम्भः । ३०८ खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः । सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनतेर्नकारस्य षस्वम् । 'खप्पो क्रोधबलात्कारी। शील तेह'स्वश्च । शिल्प कौशनम् । शसु हिंसायाम् , निपातनात्वस्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बाधतेः षः । 'बाष्पो नेत्रजलोष्मणोः' । बाष्पं च । रौतेर्दीर्घः । 'रूपं स्वभावे कित्वान्न गुणः । स्तुवो दीर्घश्च । ष्टुञ् स्तुतौ, अस्मात्प स्यात् , धातोदीर्घश्वे. त्यर्थः । 'फेनस्तूपौ सयूपको' इत्यमरः । सुशभ्यां निश्च । षुञ् अभिषवे, शू हिंसायाम, आभ्यां पः स्यात् , स च निद् भवति, चादीर्घश्चत्यर्थः । सूप इति । धातोर्दीविधिसामर्थ्यान गुणः । शूर्पमित्यत्राह । बाहलकादुत्वमिति । रपरत्वं दीर्घत्वं चेति भावः । कुयुभ्यां च । कु शब्दे, यु मिश्रणे, आभ्यां पः, स च निद् धातोदीर्घत्वं चेत्यर्थः । 'तूदस्तु यूपः कमुकः' इत्यमरः। खप्पशिल्प । खनु अवदारणे, शील समाधौ शसु हिंसायाम् , बाधृ लोडने, रु शब्दे, पृ पालनपूरणयोः, तल प्रतिष्ठाकरणे चुरादिण्यन्तः, एते पप्रत्ययान्ता इत्थ निपात्यन्त इत्यर्थः । निपातनमेवाह खनतेनंकारस्येति । 'खष्पः क्रोधे बलात्कारे' इति विश्वकोशादाह खष्पी क्रोधबलात्काराविति । शिल्पमित्यत्राह शीलतर्हस्व इति । ह्रस्वनिपातनसामर्थ्यात् किदित्यनुवर्तनाद्वा गुणाभावः । शष्पमित्यत्राह निपातनात्षत्वमिति । 'शष्पं बालतृणं घासः' इत्यमरः । बाष्प इत्यत्राह बाधतेरिति । नीलाशोकदमेऽपि च' इति मेदिनी । च्युवः । च्युङ् गतौ। धातूनामनेकार्थत्वादिह भाषणे । च्यवन्ते भाषन्तेऽनेनेति विग्रहः । दशपायां तु 'चुप: किच्च' इति पठ्यते । चुप मन्दायां गतौ । चोपतीति चुप्मन्दगमनकर्ता । स्तुवः। ष्टुञ् स्तुतौ । अस्मात्पः स्याद्धातोदीर्घश्च । सुशू । षुञ् अभिषवे, श हिंसायाम् । आभ्यां पः स्यात्स च निद्भवति । नित्वं तु स्वरार्थम् । 'सूपो व्यञ्जनसूदयोः' इति मेदिनी। शूर्पमिति । बाहुलकादुत्वं रपरत्वं 'हलि च' इति दीर्घः । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः । कुयु । कु शब्दे, यु मिश्रणे । आभ्यां पः, स च निद्धातोर्दीर्घत्वं च । खष्पशिल्प । खनु अवदारणे, शील समाधौ, बाध लोडने, रु शब्दे, पृ पालनादौ । 'खप्पः क्रोधे बलात्कृतौ' इति विश्वः । 'शष्पं बालतृणेऽपि च । पुंसि स्यात्प्रतिभाहानौ' इति मेदिनी । विश्वोक्तिमाह बाष्प इति । 'बाष्पमूष्मणि चाश्रुणि' इति कोशान्तरमभिप्रेत्याह बाष्पं चेति । रूपं स्वभावे सौन्दर्ये नालके पशुशब्दयोः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy