________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २१७
सौन्दर्ये' । पृप गृहं बालतृणं पगुपीठं च । 'तल प्रतिष्ठा करणे' चुरादिणिचो लुक | 'तपं शय्याद्वारेषु' । ३०६ स्तनिहृषिपुषिगदिर्मादिभ्यो रित्नुच् । 'श्रयामन्त-' ( सू २३९१ ) इति येरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोषयित्नुः । गदयितुः । वावदूकः । मदयित्नुः मदिरा । ३१० कुहनिभ्यां क्नुः । कृनुः शिल्पी । हत्नुर्व्याधिः शस्त्रं च । ३११ गमेः सन्वच्च । जिगनुः । ३१२ दाभाभ्यां नुः । दानुर्दाता । भानुः । ३१३ वचेर्गश्च ।
‘बाष्पमूष्माथु कशिपु' इत्यमरः । शेषं स्पष्टम् । स्तनिहृषिपुषि । स्तन देवशब्दे, हृष तुष्टौ पुष पुष्टौ, मदी हर्षग्लेपनयोः, गदी देवशब्दे, एभ्यो ण्यन्तेभ्य इत्नुच् स्यात् । इत्नुचि कृते रोरयादेशविधिं स्मारयति । श्रयामन्तेति रयादेश इति । 'स्तनयित्नुर्बलाहकः' इत्यमरः । कुहनिभ्यां क्त्तुः । डुकृञ् करणे, हन हिंसागत्योः, आभ्यां क्त्नुप्रत्यय इत्यर्थः । कृत्नुरिति । कित्त्वान्न गुणः । कर्तेत्यर्थः 1 हत्नुरिति । श्रनुदात्तोपदेशवनतीत्यादिना अनुनासिकलोपः । गमेः सन्वच्च । गम्लृ गतौ, अस्मात् क्त्नुप्रत्ययः, स च सम्वद्भवतीत्यर्थः । जिगनुरिति ।
1
लन्थवृत्तौ नाटकादावाकार श्लोकयोरपि' इति विश्वमेदिन्यौ । 'तल्पमट्टे कलत्रे च शयनीये च न द्वयोः' इति मेदिनी । श्रमरोक्तिमाह तल्पं शय्येति । स्तनिहृषि | स्तनगदी देवशब्दे चुरादिण्यन्तौ, हृष तुष्टौ, पुष पुष्टौ, मदी हर्षग्लेपनयोः घटादिः । एभ्यो रायन्तेभ्य इत्नुच् स्यात् । 'स्तनयित्नुः पुमान्वारिधरेऽपि स्तनितेऽपि च' इति मेदिनी । 'स्तनयित्नुः पयोवाहे तद्ध्वनौ मृगरोगयोः' इति विश्वः । 'हर्षयित्नुः सुते नि पोषयित्नु: पिके द्विजे' इति च । 'गदयित्नुः पुमान्काभे जल्पाके कार्मुकेऽपि च' इति विश्वमेदिन्यौ । 'मदयित्नुः कामदेवे पुमान्मधे नपुंसकम्' इति मेदिनी । कुहनि । डुकृञ् करणे, हन हिंसागत्योः । कृत्नुरिति । कर्तेत्यर्थः । कित्त्वान्न गुणः । हत्नुरिति । 'अनुदात्तोपदेश -' इत्यादिनानुनासिकलोपः । एवमुत्तरत्र गमेः क्नुपत्यये गनुरित्यपि बोध्यः । शस्त्रं चेति । चाद्धन्ता । दशपादीवृत्तौ तु क्नुरिति तकाररहितं पठित्वा कृणुः कर्ता । हनुर्ववैचकदेशः । बाहुलकान्नलोपः । गमेस्तु जिगन्तुरित्युदाहृतं तत्सर्वं प्रामादिकम् । लक्ष्यविसंवादात् । तथा च श्रूयते । 'सुरूपकृत्नुमूतये' 'ज्येष्ठराजं भरे कृत्नु' 'अयं कृत्नुरगृभीतः ' ' मा नो वधाय हत्नवे' 'मृगं न भीममुपहत्नुमुग्रम्' 'यो नः सनुत्य उत वा जिगत्नुः' इत्यादि । श्रतएव हन्तिधातुं विवृण्वता माधवेन उपहृत्नुरित्युदाहृत्य कोः कित्त्वादनुनासिकलोप इत्युक्तम् । यसु तेनैव 'सुरूपकृत्नुम्' इति मन्त्रं विवृएवता तकारोपजनरछान्दस इत्युक्तं तद्दशपादी वृत्तिमनुसृत्य, न तु वस्तुस्थितिमनुरुध्येति सहृदयैराकलनीयमित्याहुः ।