________________
२१४]
सिद्धान्तकौमुदी। [ उणादिशुष्णः सूर्यो वह्विश्च । रनं द्रव्यम् । २६३ सुमो दीर्घश्च । सूना वधस्था. नम् । २६४ रमेस्त च । रमयतीति रत्नम् । २६५ रास्नासानास्थूणावीणाः। राना गन्धद्रग्यम् । साना गोगलकम्बलः । स्थूणा गृहखम्भः । वीणा वल्ल की। २६६ गादाभ्यामिष्णुच् । गेष्णुर्गायनः । देष्णुता । २६७ कृत्यशूभ्यां पिपासायाम् , शुष शोषणे, रस शब्दे, एभ्यो नप्रत्ययः स्यात् , स च किदित्यर्थः । तृष्णेति । कित्त्वान गुणः । सुमो दीर्घश्च । षुञ् अभिषवे, अस्मानप्रत्ययः स्याद् धातोर्दीर्घश्वेत्यर्थः । सूनेति । धातोर्दीर्घविधिसामर्थ्यान्न गुणः, किदित्यनुवर्तनाद्वा । 'सूनाधोजिबिकापि च' इत्यमरः। रमेस्त च । रमु क्रीडायामस्मारण्यन्ताद् नप्रत्ययः स्यात् , तकारोऽन्तादशश्चेत्यर्थः। रमेरिति ण्यन्तस्य निर्देशः । मित्त्वा. दुपधाहवः । रानासाना। रस प्रास्वादने, षस सस्ति स्वप्ने, छा गतिनिवृत्ती, वी गतिव्याप्तिप्रजनादिषु, एभ्यो नप्रत्यये इत्थं निपात्यन्त इत्यर्थः। रास्नेति । रसधातोः नप्रत्यये उपधादीघे इति भावः । 'नाकुली सरसा रास्ना' इत्यमरः। सास्नेति। उपधादी? निपात्यते। 'साना तु गलकम्बले' इत्यमरः। स्थूणति । ष्टा गतिनिवृत्तावित्यस्य रूपम्। प्रत्ययसंनियोगेन धातोरूत्वम् , प्रत्ययस्य गत्वं च निपात्यते। 'स्थूणा स्तम्भे च वेश्मनः' इत्यमरः। वीणेति । वीधातो रूपम् । णत्वं निपात्यते। गादाभ्यामिष्णुच् । गै शब्दे, डु दाञ् दाने, आभ्याम् इष्णुच्प्रत्यय इत्यर्थः । गवादन्यामपीष्यते । अन्नं भक्ते च भुक्ते स्यात्' इति मेदिनी। 'स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान्' इति मेदिनी । धेट् । धेट पाने अस्मानः स्यादिच्चान्तादेशः । 'धेना नद्यां नदे पुमान्' इति मेदिनी। 'धेनः समुद्रे नद्यां च धेना' इति विश्वः । श्लोको धारा इत्यादिषु वाङनामसु धेनेति वैदिकनिघण्टौ पठितम् । अत एव 'धेना जिगाति दाशुषे 'इन्द्र धेनानिरिह मादयस्व' इत्यादिमन्त्रेषु धेना वागिति व्याख्यातं भाष्ये । तृषि । नितृषा पिपासायाम् , शुष शोषणे, रस शब्दे । 'तृष्णा लिप्सापिपासयोः' इति विश्वः। सुञः। षुञ् अभिषवे अस्मानः स्याद्धातोर्दीर्घश्च । सूनाधोजिहिकापि च' इति नान्तेऽमरः 'सूनं प्रसवपुष्पयोः' । 'सूना पुत्र्यां वधस्थानगलकुण्डिकयोः स्त्रियाम्' इति मेदिनी । रमेः। रमेय॑न्तानः स्यात्तकारश्चान्तादेशः । 'रत्नं स्वजाति श्रेष्ठेऽपि मण वपि नपुंसकम्' इति मेदिनी। रास्ना । रस आस्वादने उपधादीर्घः । 'राना तु स्याद् भुजङ्गाक्ष्यामेलापामपि स्त्रियाम्' इति मेदिनी । षस स्वप्ने उपधादीर्घः । 'साना तु गलकम्बलः' इत्यमरः । 'सास्ना गोगलकम्बलः' इति पाठान्तरम्' । ष्ठा गतिनिवृत्तावित्यस्य ऊत्वं प्रत्ययस्य णत्वं च । अथ स्थूणा स्यात्सूर्यों स्तम्भे गृहस्य च' इति मेदिनी । सूमी लोहप्रतिमा । वी गत्यादिषु । गुणाभावो णत्वं