SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्वबोधिनीसहिता । [ २१३ चोपधायाः । वेश्वा नदी । २८६ सिवेष्टेर्यू च । दीर्घोच्चारणसामर्थ्याच्च गुणः । स्यूनादित्यः । बाहुलकारकेवलो नः । ऊठ् । अन्तरङ्गत्वाद्यण । गुणः । स्योनः । २६० कृवृजुसिद्रूपन्यनिस्वपिभ्यो नित् । कर्णः वर्णः 'जर्यचन्द्रे च वृचे च' । सेना | द्रोणः । पन्नो नीचैर्गतिः । श्रन्नमोदनः । स्वप्नो निंद्रा । २६१ धेट इच्च । 'धेनः सिन्धुर्नदी धेना । २६२ तृषिशुषिरसिभ्यः त् । तृष्णा । वेन्नेति । उपधाया इत्वे गुणः । सिवेष्टे च । षिवु तन्तुसन्ताने, अस्मान्नप्रत्ययः, टेरिव् इत्यस्य स्थाने यू आदेश श्वेत्यर्थः । स्यून इत्यत्र यू श्रादेशे कृते 'सार्वधातुकार्धधातुकयोः' इति गुणमाशङ्कयाह दीर्घोच्चारणसामर्थ्यादिति । यदि गुण इष्टस्तर्हि यु इति स्वमेव विदधीत, गुणे कृते विशेषाभावात् । एवं सति दीर्घोच्चारणं गुणाभावार्थं विज्ञायेतेति भावः । ननु तर्हि कथं स्योन इति अत्राह बाहुलकात् केवलो न इति । यूप्रदेशरहित इत्यर्थः । एवं च नप्रत्यये छ्वोरिति वस्य ऊठि गुणात्पूर्वमन्तरङ्गत्वाद्यणि गुणे च रूपमिति भावः । कुवज़सिद्ध । कृ विक्षेपे, शृञ् वरणे, वृ इति पाठे तु वृ वरणे, मृष् वयोहानौ, षिन् बन्धने, दु गतौ पन स्तुतौ, अन प्राणने, ञिष्वप् शये, एभ्यो नप्रत्ययः स्यात् स च निदित्यर्थः । नित्त्वं स्वरार्थम् । कर्ण इति । ' रषाभ्याम् -' इति णत्वम् । धेट इच्च । धेट् पांने, अस्मान्नप्रत्ययः स्याद् इकारश्चान्तादेश इत्यर्यः । घेन इति । इकारस्य गुणे रूपम् । इत्वाविधाने तु श्रादेच इत्यात्वं स्यादिति भावः । तृषिशुरिसिभ्यः । ञि तृषा 1 1 1 सारस्यामपि योषिति । रामभ्रातरि पुंसि स्यात्स श्री के चाभिधेयवत्' इति मेदिनी । कोशे तु 'सारस्यामपि लक्षणा' इति निर्मकारः पाठः स्वीकृतः । वनेः । वन संभक्तावस्मान्नः उपधाया इत्वं च । वेन्नेति । लघूपधगुणः। सिवेः । षिवु तन्तुसन्ताने । बाहुलकादिति । एतच 'वोः शुड्-' इति सूत्रे वृत्तौ ' येन विधि -' इति सूत्रे कैयटप्रन्थे च स्पष्टम् । यणिति । लघूपधगुणे कृते त्वेकारस्यायादेशे ऊठोऽपि 'सार्वधातुक-' इत्यादिना गुणे कृते सयोन इति स्यादिति भावः । 'स्योनः किरणसूर्ययोः' इति मेदिनी । कृवृ । कू वित्क्षेपे, वृञ् वरणे, दीर्घपाठे तु वृ वरणे, जुष् वयोहानौ, दिवादिः । ज्र इति क्रपादौ चुरादौ च । षिञ् बन्धने, दु गतौ, पन स्तुतौ, अन प्राणने, ञिष्वप् शये, एभ्यो न प्रत्ययो नित्स्यात् । ‘कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि' इति विश्वमेदिन्यौ । 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदे रूपाक्षरविलेखने' इति मेदिनी । विश्वमेदिनीस्थमाह जर्राश्चन्द्र इति । 'जर्णो जीर्णदुमेन्दुषु' इति हेमचन्द्रः । 'ध्वजिनी वाहिनी सेना' इत्यमरः । 'द्रोणोऽस्त्रियामाढके स्यादाढकादिचतुष्टये । पुमान्कृपीपतौ कृष्णकाकेऽस्त्री नीवृदन्तरे । स्त्रियां काष्ठाम्बुवाहिन्यां
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy