________________
२१२ ]
सिद्धान्तकौमुदी। [उणादिअनः । बुधः । २८६ धावस्यज्यतिभ्यो नः। 'धाना भृष्टयवे स्त्रियः' । पर्ण पत्त्रम् । पर्णः किंशुकः । वस्रो मूल्ये वेतने च'। अजेर्वी। वेनः। अनः आदित्यः । बाहुलकाच्छृणोतेः । श्रोणः पङ्गुः । २८७ लक्षरट् च । लक्षश्चुरादिण्यन्तासः स्यात्तस्याडागमश्च । चान्मुडित्येके । 'लक्षणं लक्ष्मणं नाम्नि चिह्ने च' । लक्षणो लचमणश्च रामभ्राता । 'लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा' । २८८ वनेरिकृष्णे नीलासितश्यामकालश्यामलमेचकाः' इत्यमरः । बन्धेर्बुधिबधी च । बन्ध बन्धने, अस्मान्नक् स्यात् , प्रकृतेर्बुधि प्रधि इत्यादेशौ च भवत इत्यर्थः । ब्रन इति । 'भास्करोऽहस्करो ब्रनः' इत्यमरः। वुध्न इति । 'शिरोऽयं शिखरं वा ना मुलं बुधोऽङ्घिनामकः' इत्यमरः । धापृवस्यज्यतिभ्यों नः। डु धाञ् धारणपोषणयोः, पृ पालनपूरणयोः, वस निवासे, अज गती, अत सातत्यगमने, एभ्यो न प्रत्यय इत्यर्थः । नकि प्रकृते नप्रत्ययविधानं वेन इत्यादौ गुणार्थम् , वस्न इत्यत्र संप्रसारणाभावार्थ च । धाना इत्यत्र अमरकोशमाह धाना भृष्टयवे स्त्रिय इति । वस्त्र इति । 'मूल्यं वनोऽप्यवक्रयः' इत्यमरः । वेन इति । अजेर्वी आदेशः। श्रोण इति । 'पृश्निरल्पतनौ श्रोणः पङ्गो मुण्डस्तु मुण्डिते' इत्यमरः । लक्षर च । लक्ष दर्शनाङ्कनयोः, लक्ष आलोचने, श्राभ्यां चुरादिण्यन्ताभ्यां नप्रत्ययः स्यादित्यर्थः , अडागमश्च प्रकृतेः। लक्ष्मण इति रूपसिद्धपर्थमाह चान्मुडिति। वनेरिचोपधायाः। वन षण संभक्तौ, अस्मान्नप्रत्ययः, उपधाया इत्वं चेत्यर्थः । कृष विलेखन अस्माद्वर्णे वाच्ये नक् स्यात् । 'कृष्णः सत्यवतीपुत्रे केशवे वायसेऽर्जुने । कृष्णा स्याद् द्रौपदीनीलीकणादाक्षासु योषिति । मेचके वाच्यलिङ्गः स्यात्क्लीबे मरिचलो. हयोः' इति मेदिनी । बन्धेः बन्ध बन्धने अस्मानक् । 'भास्करोऽहस्करो नः प्रभाकरदिवाकरौ' इत्यमरः । 'वुनो ना मूलरुद्रयोः इति मेदिनी। धापृ। डुधाञ् धारणादौ, पृ पालनादौ, वस निवासे, अज गतौ,अत सातत्यगमने, एभ्यो नः स्यात् । नक् प्रत्यये सति तु वन इत्यत्र संप्रसारणं स्यात् । वेन इत्यत्र तु गुणो न स्यादिति भावः । 'धाना भृष्टयवे प्रोता धान्याकेऽभिनवोद्भिदि' इति विश्वः । 'पर्ण पत्रं किंशुके ना' इति मेदिनी। 'वनस्त्ववक्रये पुंसि चतने स्यानपुंसकम्' इति च । वेनः लुण्टाकः प्रजापतिश्च । लक्षः । लक्ष दर्शनाङ्कनयोः । लक्षणमित्यादि । लक्षणलक्ष्मणशब्दौ द्वावपि नामचिह्नयोः कीबो । रामभ्रातरि तु पुँल्लिो । हंसयोषायां लक्षणा । सारसस्य योषायां तु लक्ष्मणेति व्यवस्थेत्यर्थः । 'लक्षणं नाम्नि चिह्ने च सौमित्रिरपि लक्ष्मणः । लक्षणं लाञ्छने नानि रामभ्रातरि लक्ष्मणः' इति विश्वः । लक्ष्मणोऽपि लक्षणोऽपि च' इति द्विरूपेषु च विश्वः । लक्षणं नाम्नि चिह्ने च सारस्या लक्षणा क्वचित् । लक्ष्मणा त्वौषधीभेदे