________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२११ वरणम् । तीवरो जातिविशेषः । नीवरः परिवाट् । गाहतेहस्वस्वम् । गह्वरम् । कटे वर्षादौ, कन्वरं व्यञ्जनम् । यमेर्दकारः, संयद्वरो नृपः। पदेः सम्पदर इत्येके । २८२ इसिञ्जिदीकुष्यविभ्यो नक् । 'इनः सूर्ये नृपे पत्यौ' । सिनः काणः । जिनः अन् । दीनः । उष्णः । ऊनः । २८३ फेनमीनौ । एतौ निपात्येते। स्फायतेः फेनः । मीनः । २८४ कृषेवणे । कृष्णः । २८५ बन्धेर्बधिबुधी च। श्नुविकरणात् ष्वरचि दी| निपात्यत इत्यर्थः । तीवर इति । ताय पूजानिशामनयोरित्यस्मात् ष्वरचि, 'लोपो व्यो:-' इति यलोपे, ईत्त्वं निपात्यते । यद्वा, तीवधातो प्रत्यये 'लोपो व्योः-' इति वलोपे रूपम् । नीवर इति। णी प्रापणे इत्यस्मात् ज्वरचि रूपम् । गह्वरेत्यत्राह । गाहतेरिति । गाह विलोडने इत्यस्मादिति भावः । 'गह्वरं गण्डशलास्तु' इत्यमरः । पित्त्वान्डीषि गहरीति रूपम् । 'विपुला गहरी धात्री' इत्यमरः । कट्वरेति । कटे वर्षादौ, अस्मात्प्रत्ययः । संयद्वर इत्यत्राह यमेर्दकार इति । इसिञ्जि। इण् गतौ, षिञ् बन्धने, जि जये, दीङ क्षये, उष् दाहे, अव रक्षणे, एभ्यो नक्प्रत्यय इत्यर्थः । कित्त्वान्न गुणः । इन इति । 'इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।' 'इनः सूर्यो प्रभौ राजा' इत्यमरः । जिन इति । 'मारजिल्लोकजिजिनः' इत्यमरः । दीन इति । 'निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतीऽपि सः' इत्यमरः । ऊन इति । अवधातो रूपम् । नकः कित्त्वाद् 'ज्वरत्वर-' इत्यूठ। फेनमीनौ। स्फायी वृद्धौ, मी हिंसायो, आभ्यां 'नकि एतौ निपात्येते इत्यर्थः । श्राद्ये स्फाय इत्येतस्य फे इत्यादेशः । 'डिण्डीरोऽब्धि. कफः फेनः' इत्यमरः। कृषेवणे । कृष विलेखने, अस्माद् वर्णेऽभिधेये नक् स्यादित्यर्थः। केचिदाहुः । 'तीवरो नाम्बुधौ व्याधे' इति मेदिनी । 'स्यानीवरो वाणिजके वास्तवेऽपि च दृश्यते' इति मेदिनीविश्वप्रकाशौ । गाहतेरिति । गाहू विलोडने । 'कटवरं कुत्सिते वायलितं तके नपुंसकम्' इति मेदिनी । बाहुलकादुपपूर्वकाद् हुदानादनयोरित्यस्मात्म्वरच्युकारलोपः । 'उपहरं समीपे स्यादेकान्तेऽपि नपुंसकम्' इति मेदिनी । उपहरो रथ इति केचित् । तदु प्रयक्षतं' इति मन्त्रे तु उपहरे उपगन्तव्ये समीपदेशे। इण । इण् गती, षिञ् बन्धने, जि जये, दी क्षये, उष दाहे, अव रक्षणे । 'इनः पत्यो नृपार्कयोः' इति मेदिनी । 'जिनोऽर्हति च बुद्धे च पुंसि स्यास्त्रिषु जित्वरे' इति च । 'दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत्' इति विश्वः । 'उष्णो प्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः' इति मेदिनी । 'ज्वरत्वर-' इत्यूठ ऊनमसंपूर्णम् । फेन । स्फायी वृद्धौ, अस्य फे इत्यादेशः । मीञ् हिंसायाम् । 'डिण्डीरोऽब्धिकफः फेनः' इत्यमरः । 'मीनो राश्यन्तरे मत्स्ये' इति विश्वः । कृषः।