________________
२०५ ]
सिद्धान्तकौमुदी |
[ उणादि
यम् । 'श्रग्नेर्भ्राजन्ते श्रर्चयः । शोचिर्दीप्तिः । हविः । सर्पिः । 'इस्मन् -' ( सू. २१८५ ) इति ह्रस्वः । छदिः पटनम् । छर्दिर्वमनग्याधिः । इदन्तोऽपि । 'छद्येतीसारशूलवान्' । २६६ बृंहेर्नलोपश्च । 'बर्हिन कुशशुष्मणोः' । २६७ द्युतेरिसिन्नादेश्च जः । ज्योतिः । २६८ वसौ रुचेः संज्ञायाम् । वसुरोचिर्यज्ञः । २६६ भुवः कित् । भुविः समुद्रः । २७० सहो धश्च । सधिरनड्वान् । २७१ पिबतेस्थुक् । 'पाथिश्चक्षुः समुद्रयोः' । २७२ जनेरुसिः । जनुर्जननम् । २७३ मनेर्घश्छन्दसि । मधुः । २७४ अर्तिपूवपियजित
1
1
श्रच इरिति इप्रत्यये साधुरिति भावः । छादि इति रायन्तादिसि णिलोपे उपधाह स्वार्थमाह इस्मन्निति । छद्येतीसारेति । छर्दिश्चातिसारश्च शूलं च यस्य सन्तीति विग्रहः । बृंहेर्न लोपश्च । बृहि वृद्धौ श्रस्मादिसिः, नकारस्य लोपश्वेत्यर्थः । बर्हिरिति उपधागुणे रूपम् । द्युतेरिसिन्नादेश्च जः । युत दीप्तौ, अस्मादिसिन्प्रत्ययः। आदर्दकारस्य जकारश्चेत्यर्थः। वसौ रुचेः संज्ञायाम् । वसुशब्दे उपपदे रुच दीप्तावित्यस्मादिसिन् प्रत्ययः स्यात्संज्ञायामित्यर्थः वसुरोचिरिति । भुवः कित् । भू सत्तायामित्यस्माद् इसिन्प्रत्ययः, स च द् िभवतीत्यर्थः । कित्त्वान्न गुणः । सहो धश्च । षद्द मर्षणे इत्यस्माद् इसिन्प्रत्यः, अन्त्यस्य धकारश्चेत्यर्थः । पिबतेस्थुक् । पा पाने, अश्मादिसिन् धातोश्च थुगागम इत्यर्थः । पाथिरिति रूपम् । जनेरुसिः । जनी प्रादुर्भावे श्रस्मादुसिप्रत्यय इत्यर्थः । मनेर्धश्छन्दसि । मनु श्रवबोधने, श्रस्मादुसिप्रत्ययः धातोरन्तादेशश्च धकार इत्यर्थः । अर्तिपूवपि । इदन्तोऽपीति । णिजन्तादर्चेरत इरिति भावः । 'अचिर्हेतिः शिखा स्त्रियाम् ' इत्यमरः । ‘रोचिः शोचिरुभे कीबे इति च । सर्पिर्धृतम् । छाद्यतेऽनया छदिः । छदिः स्त्रियामेवेति लिङ्गानुशासनसूत्रम् । एवं च पटलं छदिरित्यमरप्रन्थे पटलसाहचर्याच्छ्रदिषः क्लीबतां वदन्त उपेक्ष्याः । छद्यतीति । छर्दिश्वातिसारश्च शूलं च तानि यस्य सन्तीति विग्रहः । बृंहेः । बृहि वृद्धौ श्रस्मादिसिः । कुशशुष्मणोरिति । शुष्मा नाम श्रग्निः । 'अग्निर्वैव नरो वह्निः' इत्युपक्रम्य 'बर्हिः शुष्मे 'त्यमरेणोक्तत्वात् । 'बर्हिः पुंसि हुताशने। न स्त्री कुशे' इति मेदिनी । द्युतेः । द्युत दीप्तौ । 'ज्योतिरनौ दिवाकरे । पुमान्नपुंसकं दृष्टौ स्यान्नक्षत्र प्रकाशयो. ' इति मेदिनी । वसौ । रुच दीप्तावस्माद्वसुशब्दे उपपदे इसिन्स्यात्संज्ञायाम् । बाहुलकात्केवलादपि 'रोचिः शोचिरुभे क्लीबे' इत्यमरः । भुत्रः । भवतेरिसिन् स्यात्स च कित् । सहो । षह मर्षणेऽस्मादिसिन् धश्चान्तादेशः । पिबतेः । पापाने अस्मादिसिन्धातोश्च थुगागमः । जनेः । जनी प्रादुर्भावे । मनेः । मनु अवबोधनेऽस्मादुसिः स्याच्छन्दसि धकारश्चान्तादेशः । मधु पवित्रद्रव्यम् ।
,