________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०७ शुषेः सनश्छन्दसि । प्राशुशुचणिरनिर्वातश्च । २६१ कृषेरादेश्च चः। चर्षणिर्जनः । २६२ अदेर्मु च । अन्ननिः अग्निः । २६३ वृतेश्च । वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्मनिरित्याह । २६४ क्षिपेः किञ्च । विपणिरायुधम्। २६५ अर्चिशुचिहुसृपिछादिदिभ्य इसिः। अर्चिवाला। इदन्तोऽप्य. स्मात्सन्नन्तादनिप्रत्यय इत्यर्थः । आशुशुक्षणिरिति । शुशुक्षेति सन्नन्तम् । 'रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः' इत्यमरः । कृषेरादेश्व चः । कृष विलेखने अस्मादनिप्रत्यय इत्यर्थः । ककारस्य चकारश्च । चर्षणिरिति । 'पुगन्तलघूपधस्य च' इति गुणः । अदेर्मुट् च । अद भक्षणे, अस्मादनिप्रत्ययः, मुडागमश्च प्रत्ययस्य भवतीत्यर्थः । वृतेश्च । वृतु वर्तने, अस्मादनिप्रत्यय इत्यर्थः । 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः। वर्तिनीत्यत्र कृदिकारादिति डोष । तिपः किश्च । क्षिप् प्रेरणे, अस्मादनिप्रत्ययः, स च किद्भवतीत्यर्थः । कित्त्वान्न गुणः, क्षिपणिः । अर्चिशुचि । अर्च पूजायाम् , शुच शोके, हु दानादनयोः, सुप्लु गतौ,छद अपवारणे ण्यन्तः, छर्द वमने, एभ्य इसिप्रत्यय इत्यर्थः । अचिरिति। सान्तोऽयम् । 'ज्वालाभासोनपुंस्यर्चिः' इत्यमरः । इदन्तोऽप्ययमिति । ण्यन्तादः सहा कुमारी गन्धोल्योः' इति धन्वन्तरिनिघण्टुः । रजनिरिति। रञ्ज रागे अस्मादप्यनिनलोपोऽपि बाहुलकात् 'कृदिकारात्-' इति छीष् । रजनी। रजनी नौलिनी रात्रिर्दरिद्वाजतुकासु च' इति मेदिनी । आङि । शुष शोषणे अस्मात्सन्नन्तादाङि उपपदे अनिः स्यात् । कृषेरादेः । कृष विलेखने, चर्षणिर्जन इति वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु पाठात् । 'श्रोमासश्चर्षणीधृतः' इत्यादिमन्त्रेषु वेदभाष्यकारैस्तथैव व्याख्यातत्वाच्च । उज्ज्वलदत्तेन तु आदेश्च न इति पठित्वा धर्षणिबन्धकीति व्याख्यातम् । तदयुक्तम् । तथा सति धृषेरित्येव सूत्रयेत् । प्रागल्भ्यरूपावयवार्थानुगमात् । आदेश्च ध इत्यंशस्य त्यागेन लाघवाच्च, तस्मादादेश्च चः इति दशपादीवृत्तिपाठ एव युक्त इत्याहुः । अदेः। श्रद भक्षणे अस्मादनिस्तस्य मुडागमश्च । वृतेश्च । वृतु वर्तने अस्मादप्यनिः । वर्तनिरिति । 'कृदिकारात्-' इति डोषि तु वर्तनी । 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः । क्षिपेः । क्षिप प्रेरणे तिपणिरायुधमिति । 'उतस्य वाजी क्षिपणिं तुरण्यति' इति मन्त्रस्य वेदभाष्ये तु क्षिपणिं क्षेपणमनु तुरण्यति त्वरयति गन्तुमिति व्याख्यातम् । अर्चि। अर्च पूजायाम् , शुच शोके, हु दानादनयोः, सृप्ल गती, छद अपवारणे, एयन्तः । छर्द वमने, अचिरिति सान्तम् । 'तमर्चिषा स्फूर्जयन्' इति मन्त्रः । 'नयनमिव सनिद्रं घूर्णते दैवमचिः' इति माघः । 'ज्वालाभासोनपुंस्यचिः' इति नानार्थे सान्तेष्वमरः ।