________________
२०६ ] सिद्धान्तकौमुदी। [उणादिनयतेर्डिच्च । ना नरौ नरः । २५८ सव्ये स्थश्छन्दसि । 'अम्बाम्ब-' (सू. २११८ ) इत्यत 'स्थास्थिन्स्थूणामुपसंख्यानम्' (वा ४६६१)। सव्येष्ठा सारथिः । सम्येष्ठरो सग्येष्ठरः । २५६ अतिसृधृधम्यम्यश्यवितृभ्योऽनिः। अष्टभ्योऽनिप्रत्ययः स्यात् । अरणिरग्नेर्योनिः । सरणिः । धरणिः । धमनिः । प्रमनिर्गतिः । अशनिः । भवनिः । तरणिः। बाहुलकाद्रजनिः । २६० आङि त्यर्थः । ऋनि प्रकृत ऋविधिः नित्स्वराभावार्थम् । 'खामिनो देतृदेवरौ' इत्यमरः। नयतेचि । णीञ् प्रापणे, अस्माद् ऋप्रत्ययः, स च डिद्भवतीत्यर्थः । डित्त्वं टिलोपाथम् । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । सव्ये स्थश्छन्दसि । छा गतिनिवृत्तौ, अस्मात् सव्यशब्दे उपपदे ऋप्रत्ययः, स च डिदित्यर्थः । सव्येष्ठ इति स्थले षत्वार्थमाह अम्बाम्बेत्यत्रेति । तत्पुरुषे कृतीत्यलुक् । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः । सव्येष्ठदक्षिणस्थौ च' इत्यमरः । अतिसृधृ । ऋ गतौ, स गतौ, धृञ् धारणे, धमिधातुः सौत्रः, अम गतो, अश भोजने, अव रक्षण, तृ प्लवनतरणयोः, एभ्यः अनिप्रत्यय इत्यर्थः । अरणिरिति । 'निर्मन्थदारुणि त्वरणियोः' इत्यमरः । आङि शुषेः। प्रालि उपपदे शुष शोषणे इत्य. सेवायां न तुष्यतीत्यर्थः । 'उषाप्यूषा ननान्दा च ननन्दा च प्रकीर्तिता' इति द्विरूपकोशः । दिवेः । दिवु क्रीडाविजिगीषादौ । देवेति । भ्रातर इत्यनुवृत्ती "स्वामिनो देवदेव' इत्यमरः । 'देवे धवे देवरि माधवे च' इति श्रीहर्षः । नयतेः। णी प्रापणे। अस्माद् ऋप्रत्ययः सच डित् , छित्त्वाहिलोपः । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नराः' इत्यमरः । सव्ये । छा गतिनिवृत्तौ भस्मात्सव्यशब्दे उपपदे ऋः स्यात्स च डित् । तत्पुरुषे कृति-' इति सप्तम्या अलुक् । उपसंख्यान. मिति । षत्वस्येति शेषः । अति । ऋ गतौ, सृ गतौ, धृञ् धारणे, धमिः सौत्रः, श्रम गतौ, अश भोजने, अव रक्षणादौ, तृ प्लवनतरणयोः । 'अरणिर्वह्निमन्थे ना द्वयोनिमथ्यदारुणि' इति मेदिनी । 'सरणिः श्रेणिवर्त्मनोः' इति दन्त्यादौ रमसः । 'सरणिः पङ्गो मार्गे स्त्री' इति मेदिनी । श हिंसायां ततोऽनिप्रत्ययः । शरणिरित्येके। 'शरणिः पथि चावलौ' इति तालव्यादावजयः । 'इमाममे शरणिम्' इति मन्त्रे
शरणि हिंसां व्रतलोपरूपां मीमृषः क्षमस्वेति वेदभाष्यम् । धरणिभूमिः । 'धमनी तु शिराहट्टविलासिन्यां तु योषिति' इति मेदिनी । श्रमनिर्गतिः । अश्यते भुज्यते राज्यमिन्द्रेणानयेति अशनिवज्रम् । 'अशनिः स्त्रीपुंसयोः स्याचञ्चलायां रवावपि' इति मेदिनी। अवनिः पृथिवी। 'तरणिर्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम्' इति मेदिनी । कुमारी लताविशेषः। तरणी रामतरणी कर्णिका चारुकेसरा ।