________________
२०४ ]
सिद्धान्तकौमुदी। [उणादिश्वितर्दश्च । शिश्विदानः पुण्यकर्मा । २५० तृन्तृचौ शंसितदादिभ्यः संज्ञायां चानिटौ । शंसेः सदादिभ्यश्च क्रमात्तृन्तृचौ स्तः, तो चानिटौ । शंस्ता खोता । शंखरौ शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भरणे च । अनुदातेत् , 'वृक्ये चक्षदानम्' इति मन्त्रात् , 'उक्षाणं वा वेहतं वा सदन्ते' इति ब्राह्मणाच्च । 'सत्ता स्यात्सारथी द्वाःस्थे वैश्यायामपि शूद्रजे'। २५१ बहुल. इति । प्रत्ययलक्षणेन सनमाश्रित्य द्वित्वम् । नच 'न लुमता-' इति निषेधः । लुप्तप्र. त्यये परतः तन्निमित्ताङ्गसंज्ञकस्य कार्य नेति तदर्थात् । द्वित्वं तु न सनि परतः तन्निमित्तानसंज्ञस्य विधीयते, अपितु तदन्तस्य । श्वितेर्दश्च । श्विता वणे, अस्मात् समन्तादानच् सनो लुक् , तकारस्य दकारश्च । शिश्विदान इति । पूर्ववद् द्वित्वम् । 'शिश्विदानः पुण्यकर्मा चपलश्चिकुरः समा' इत्यमरः । शिश्विदानोऽकृष्णकर्मेति क्वचित्पाठः । तस्याप्येष एवार्थः । तृन्तृचौ शंसि । शंसु स्तुतौ, क्षदधातुः सौत्रः, आभ्यां तृन्तृचौ कमात्स्तः। तौ चानिटावित्यर्थः। शंस्तेति । तृन् । शंस्तराविति । अतृनिति सूत्रे नप्त्रादिप्रहणं नियमार्थ औणादिकतन्त. जन्तानां यद्युपधादीर्घस्तर्हि नप्त्रादीनामेवेति । तस्मादत्र न दीर्घ इति भावः । प्रशास्तारावित्यादौ तु आदिग्रहणात्तृचि दी| भवत्येव, नप्त्रादिषु पाठात् । तत्तेति । ज्जुहुराणमेनः' इति मन्त्रे जुहुराणं कौटिल्यकारि एनः पापं युयोधि पृथक् कुरु इति भाष्यम् । श्वितेः । श्विता वर्णे अस्मात्सन्नन्तादानच् , 'सन्योः' इति द्वित्वम सनो लुक् तकारस्य च दकारः । किदित्यनुवृत्तेर्न गुणः । पुण्यकर्मेति । 'शिश्विदानोऽकृष्णकर्मा' इति विशेष्यनिने अमरः । अकृष्णं शुक्लं निष्पापत्वात् शुद्धं कर्म यस्येत्यर्थः । क्षीरस्वामिना त प्रकृतसूत्रं विस्मृत्य श्विदि श्वेत्ये अस्माल्लिटः कानजिति व्याख्यातम् , तदसंगतं कानचश्छान्दसत्वाद् इदित्त्वेन नलोपानुपपत्तेश्चेति दिक् । तृन्तुची । शंस्तेति । शंसु स्तुतावस्मात्तॄन् । 'अपतृन्-' इति सूत्रे नप्त्रादिप्रहणं नियमार्थमौणादिकतन्तृजन्तानां चेदुपधादीर्घस्तर्हि नपत्रादीनामेवेत्युक्तम् । तेनात्र दीर्घो नेत्युदाहरति शंस्तरौ शंस्तर इति। नित्त्वादाद्युदात्तः । तथा च मन्त्रः 'प्रावप्राभ उत शस्ता सुविप्रः' । श्रादिशब्दाच्छासु अनुशिष्टौ । शास्ति विनयति सत्वान् शास्ता युद्धः । शास्तारौ । शास्तारः। 'शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' इति । प्रपूर्वस्य तु नत्रादिषु पाठाद् 'अप्तृन्-' इति दीर्घः । प्रशास्तारो। प्रशास्तारः। 'क्षत्ता-शूद्राच्च वैश्याजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि स्यानियुक्तवेधसोः . पुमान्' इति मेदिनीकोशानुसारेणाह वैश्यायामिति । अमरस्तु 'क्षत्रियाय च शहजे' इत्याह । गीम् प्रापणे उत्पूर्वः । उनेता ऋत्विम्भेदः । बहुलमन्यत्रापि ।