SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २०३ 'बेहद्गर्भोपघातिनी' । २४३ छन्दस्यसानच्शुजृभ्याम् । शवसानः पन्थाः । जरसानः पुरुषः । २४४ ऋञ्जिवृधिमन्दिसहिभ्यः कित् । ऋअसानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च । २४५ श्रर्तेर्गुणः शुद् च । अर्शसानोऽभिः । २४६ सम्यानच्स्तुवः । संस्तवानो वाग्मी । २४७ युधिबुधिदृशिभ्यः किञ्च । युधानः । बुधानः । दृशानो लोकपालकः । २४८ हुछेंः सनो लुक् छलोपश्च । जुहुराणश्चन्द्रमाः । २४६ छन्दस्य । शु गतौ, जष् वयोहानौ श्रभ्यामसानच्प्रत्यय इत्यर्थः । ऋञ्जिवृधि । ऋजि गतौ, वृधु वृद्धौ, मदी हर्षे, षह मर्षणे, एभ्यः श्रसानच्प्रत्ययः कित्स्यादि • त्यर्थः । अर्तेर्गुणः । ऋ गतौ अस्माद् श्रसानच्प्रत्ययः, धातोर्गुणः, प्रत्ययस्य शुडागमश्चेत्यर्थः । सम्यानच् स्तुवः । समि उपपदे ष्टुञ् स्तुतावित्यास्माद् आनच्प्रत्यय इत्यर्थः । गुणेऽवादेशः । युधिबुधि । युध संप्रहारे, बुधिर् अवबोधने, दृशिर प्रेक्षणे, एभ्य आनच् कित्स्यादित्यर्थः । युधान इति । हुच्छेः सनो । हुर्च्छा कौटिल्ये, अस्मात्सन्नन्ताद् आनच् स्यात्, सनो लुक्, छलोपश्च । जुहुराण इति नुमः शङ्खैव नास्ति । वेहदित्यत्र तु 'उगितश्च' इति ङोबू नेति भावः । संचिनोतेरिति । सुभूतिचन्द्रस्तु संपूर्वाच्छ्रयतेः संश्चदित्याह तृपच्छत्रमिति । चन्द्रमा इत्यन्ये । विहन्ति गर्भमिति वेहत् । इत ए चेति । विशब्दसंबन्धिन इकारस्य एकार इत्यर्थः । गौरित्यनुवृत्तौ 'वेहद् गर्भोपघातिनी' इत्यमरः । छन्दस्य । शु गतौ, जुष् वयोहानौ । पन्था इति । 'प्रमन्महे' इत्यादिमन्त्रद्वये शवसानशब्दो गन्तृपरतया व्याख्यातः । ऋञ्जि । ऋजि भर्जने, वृधु वृद्धौ, मदि स्तुत्यादौ, षह मर्षणे, एभ्य असानच् कित्स्यात् । ऋञ्जसानो मेघ इति । ऋजेरिदित्त्वान्नुम् । इदित्त्वादेव नलोपाभावः । एवं चायं मन्दिसही च त्रयोऽपि पूर्वसूत्र एव पठितुं शक्याः । कित्त्वं तु वृधुधातावेवोपयुज्यते । उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम् । अर्तेः सुद् च वृधेः किदित्युक्तौ सर्वसामञ्जस्यादित्याहुः । 'ऋअसानः पुरुवार उक्थै: ' 'अस्मिन् यज्ञे मन्दसानो वृषण्वसू ' इत्यादिमन्त्राणां भाष्ये तु यौगिकार्थ एव पुरस्कृतः । श्रर्तेः ः । ऋ गतौ धातोर्गुणः प्रत्ययस्य सुडागमः । ' श्रासाविषदर्शसानाय' इति मन्त्रस्य भाष्ये तु अर्शसानाय शत्रूणां हिंसित्रे इति व्याख्यातम् । सम्या । ष्टुञ् स्तुतौ अस्मात्सम्युपपदे आनच् । युधि । युध संप्रहारे । युधानो रिपुः । बुधिर बोधने। बुधान श्राचार्यः । दृशिर् प्रेक्षणे । बाहुलकात्क्रूपेरप्यानच् । कृपाणः खङ्गः । 'कृपाणेन कथंकारं कृपणः सह गण्यते । परेषां दानसमये यः स्वकोशं विमुञ्चति' । हुच्छेः । हुर्च्छा कौटिल्ये, अस्मात्सन्नन्तादानच्स्यास्सनो लुक् लोपश्च । 'युयोध्यस्म• ,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy