________________
२०२] सिद्धान्तकौमुदी। [उणादिपृषन्ति । वृहत् । महान् । गमेजंगादेशः, जगत् । २४२ संश्चपदेहत् । एते निपात्यन्ते । पृथकरणं शतृवद्भावनिवृत्यर्थम् । सचिनोतेः सुट, इकारलोपः, संश्चत् कुहकः। तृपत् छत्रम् । विपूर्वाद् हन्तष्टिलोपः, इत ए च । अतिप्रत्यये लघूपधगुणमाशङ्कयाह गुणाभाव इति । नितात्यत इति शेषः। शतृ. वत्त्वातिदेशस्य फलप्रदर्शनायाह पृषन्तीति । गम्धातोरतिप्रत्यये जगादेशे च जगदिति रूपम् । लटः शतरि तु महतीत्यादौ शपि 'आच्छीनद्यो:-' इति नुम् स्यात् । अतिप्रत्यये तु तस्याधातुकतया न शप् । संश्चतृपद्वेहत्। चिञ् चयने, तृप प्रीणने, हन हिंसागत्योः, एते अतिप्रत्ययान्ता निपात्यन्त इत्यर्थः । ननु पूर्वसूत्र एव पठितव्ये पृथक् पठनं व्यर्थमित्यत आह पृथक्करणामिति । संश्चदित्यत्राह । इकारलोप इति । वेहदित्यत्राह इत ए इति । विशब्दसंबन्धिन इकारस्येत्यर्थः । च 'उगिदचाम्-' इति नुमि महान् । स्त्रियां तु 'उगितश्च' इति डोपि महतीत्यादि सिध्यतीति भावः । ननु पृषन्महदादयः 'लटः शतृशानचौ-' इति शतृप्रत्ययान्ता एव भवन्तु । ततश्च वर्तमान इति शतृवच्चेति च न कर्तव्यमिति महदेव लाघवमिति चेदत्राहुः--शतृप्रत्ययान्तत्वे तु 'कतरि शप्' इति शप्प्रत्यये महतीत्यादौ 'पाच्छीनद्यो:-' इति नुम् स्यात् महानित्यादौ तु 'तस्यानुदात्तेन्छिददुपदेशात्' इति लसार्वधातुकस्वरः स्याद् अतिप्रत्ययान्तत्वे तु तस्यातिप्रत्ययस्यार्धधातुकत्वाम्युपगमेन शबभावानोक्तदोष इत्याशयेनातिप्रत्ययान्तत्वेन निपातनं स्वीकृतमिति । वृह वृद्धौ, मह पूजायाम, गम्लु गतौ । पृषन्तीति । बिन्दुवाची पृषच्छब्दो नपुंसकमिति ध्वननाय बहुवचनमुदाहृम् । 'पृषन्मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना। अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ' इति मेदिनी । 'बृहती क्षुद्रवार्ताक्यां कण्टकार्यां च वाचि च । वारिधान्यां महत्यां च छन्दोवसनभेदयोः' इति विश्वः। शतृवद्भावाद् 'उगिदचाम्-' इति नुम् । बृहन् विपुलः । 'महती वल्लको भेदे राज्ये तु स्यानपुंसकम् । तत्त्वभेदे पुमान् श्रेष्ठे वाच्यवत्' इति मेदिनी। महती नारदवीणा। 'विश्वावसोस्तु बृहती तुम्वुरोस्तु कलावती । महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी' इति वैजयन्ती। 'अवेक्षमाणं महतीं मुहुर्मुहुः' इति माघः । 'जगत्स्याद्विष्टपे कीबं वायौ ना जङ्गमे त्रिषु । जगती भुवने क्षमायां छन्दोभेदे जनेऽपि च' इति मेदिनी । तत्र वायुवाचिनः पुंल्लिङ्गस्य शतृ. वद्भावादुगित्त्वेन नुमि जगन् जगन्तौ जगन्त इत्यादि भवति । 'द्युतिगमिजुहोतीनां द्वेच' इति व्युत्पादितस्य तु नुमभावाजगत् जगतौ जगत इत्यादीति बोध्यम् । संश्चत्त । चिञ् चयने, तृप प्रीणने, हन हिंसागत्योः। निपात्यन्त इति । अतिप्रत्ययान्ता इति शेषः । निवृत्त्यर्थमिति । एवं च संश्चदित्यत्र 'उगिदचाम्-'