________________
पकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०१ निधुवनं सुरतम् । भृजनमम्बरीषम् । २३६ कृपृवृजिमन्दिनिधानः क्युः। किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् । २४० धृषेधिष् च संज्ञायाम् । धिषणो गुरुः । धिषणा धीः। २४१ वर्तमाने पृषद्वहन्महजगच्छतृवच्च । प्रतिप्रत्ययान्ताः । 'पृषु सेचने' गुणाभावः इत्यमरः । एवं सुवन इत्यपि । निधुवनमिति । 'मैथुन निधुवनं रतम्' इत्यमरः । भृजनमिति । क्युनः कित्त्वाद् अहिज्येति संप्रसारणम् । सस्य जश्त्वेन दः । दस्य श्चुत्वेन जः । कृपवृजि । कृ विक्षेपे, पृ पालनपूरणयोः, जी वर्जने, मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, निपूर्वकडधाधारणपोषणयोः, एभ्यः क्युप्रत्यय इत्यर्थः । किरण इति । इत्वं रपरत्वम् , णत्वम् । पुरण इति । 'उदोष्ठ्यपूर्वस्य' इत्युत्वम् । निधनमिति । 'आतो लोप इटि च' इत्यालोपः । 'निधनं कुलनाशयोः' इत्यमरः । धृषधिष् च संज्ञायाम् । नि धृषा प्रागल्भ्ये, अस्मात्क्युः, धातोर्धिषादेशश्च । धिषण इति । गीष्पतिर्धिषणो गुरुः' इत्यमरः । धिषणेति । 'बुद्धि. मनोषा धिषणा' इत्यमरः । वर्तमाने । पृषु सेचने, बृह वृद्धौ, मह पूजायम् , गम्लु गतो, एभ्यः अतिप्रत्यय इत्यर्थः । शतृवञ्चेति । तेन उगित्त्वान्नुमिति भावः । शाल्मल्या पुंसि स्याद्रोचके त्रिषु' इति च । चदि आहादे। 'चन्दनं मलयोद्भवे । चन्दनः कपिभेदे स्यानदीभेदे नु चन्दनी' इति विश्वः । 'चन्दनी तु नदीभिदि । चन्दनोऽस्त्री मलयजे भद्रकाल्यां नपुंसकम्' इति मेदिनी । भद्रकाली ओषधिविशेषः । 'भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम्' इति मेदिनी । असु क्षेपणे। 'असनं क्षेपणे क्लीबं पुंसि स्याजीवकद्रुमे' इति मेदिनी । अत सातत्यगमने राजपूर्वः । 'राजातनः क्षीरिकायां प्रियाले किंशुकेऽपि च' इति विश्वमेदिन्यौ। एवमन्येऽपि द्रष्टव्याः। रलेः। रज रागे, ल्युटि तु रखनम् । 'रजनो रागजनने रजनं रक्तचन्दने' इति मेदिनी । बाहुलकात्कृपेरपि क्युन् । 'कृपो रो लः' इति प्राप्तलत्वाभावश्च । कृपणः । भूसू । भू सत्तायाम् , घूङ् प्राणिप्रसवे, धृञ् कम्पने, भ्रस्ज पाके, बहुलवचनाद्भाषाया. मपि कचित् । 'भुवनं विष्टपेऽपि स्यात्सलिले गगने जने' इति मेदिनी । 'विष्टपं भुवनं जगत्' इत्यमरः । भृजनमिति । 'पहिज्या-' इति संप्रसारणम् । सस्य जश्त्वेन दः, दस्य श्चुत्वेन जः । 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः । कृप । क विक्षेपे, पृ पालनादौ, वृजी वर्जने, मदि स्तुत्यादौ, डुधाञ् धारणपोषणयोः । 'निधनं स्यात्कुले नाशे' इति मेदिनी । 'निधनं कुलनाशयोः' इति हेमचन्द्रः। धृषः। मिषा प्रागल्भ्ये, अस्मात्कुः धिषादेशश्च धातोः। धिषणस्त्रिदशाचार्य विषणा धियि योषिति' इति मेदिनी । 'गीष्पतिर्षिषणो गुरुः' इत्यमरः । वर्तमाने । शत्वधेति । तथा