________________
२०० ]
सिद्धान्तकौमुदी ।
[ उणादि
स्ना काम्ची । जिह्वावाच. तु दन्त्यसकारवान् २३४ उन्देर्नलोपश्च । श्रोदनः २३५ गमेर्गश्च । गमेर्युच्स्याद्गश्चादेशः । गगनम् । २३६ बहुलमन्यत्रापि । युच् स्यात् । स्यन्दनः । रोचना । २३७ रञ्जेः क्युन् । रजनम् । २३८ भूसुधूभ्रस्तिभ्यश्छन्दसि । भुवनम् । सुवन श्रादित्यः । धुवनो वह्निः ।
मेखला काञ्चीसप्तकी रशना तथा' इत्यमरः । जिह्नावाची त्विति । 'रसज्ञा रसना जिह्वा' इति प्रसिद्ध इति भावः । दन्त्यसकारेति । रस आस्वादने चौरादिकः | ततो नन्द्यादित्वात् ल्युप्रत्यये अनादेशे रूपमिति भावः । उन्देर्नलोपश्च । उन्दी क्लेदने, अस्माद् युच्, धातोर्नकारस्य लोपश्वेत्यर्थः । उपधागुणः । ओदन इति । 'नोsस्त्री सदीदिविः' इत्यमरः । गमेर्गश्च । गम्लु गतावित्यस्माद्युच्प्रत्ययः गश्चान्तादेश इत्यर्थः । ‘नमोऽन्तरिक्षं गगनम्' इत्यमरः । बहुलमन्यत्रापि । स्यन्दनइति । स्यन्दू प्रस्रवण इत्यस्माद् युजिति भावः । रोचनेति । रुच दीप्तावित्यस्मात्प्रत्ययः । रञ्जेः क्युन् । रञ्ज रागे अस्मात्क्युन्स्यात् । रजनमिति । कित्त्वान्नलोप इति भावः । ल्युटि तु रञ्जनमिति भावः । ' रञ्जनं रक्तचन्दनम् ' इत्यमरः । भूसूधू । भू सत्तायम्, षूङ् प्राणिप्रसवे, धूञ् कम्पने, भ्रस्ज पार्क, एभ्यः क्युन्स्यात् । भुवनमिति । किश्वान्न गुणः । उवङिति भावः । 'विष्टपं भुवनं जगत्'
स्तिक्वशाकः कुमारकः' इत्यमरः । श्रशेः । श्रशु व्याप्तौ । जिह्नावाची त्विति । रस आस्वादने चौरादिकः । ततो नन्द्यादित्वात् ल्युः । ' रायासश्रन्थ ' इति युज्वा । रसत्यास्वादयतीति रसना । ' रसनं स्वदने ध्वनौ । जिह्वायां तु न पुंसि स्याद्वास्नाय रसना स्त्रियाम्' इति मेदिनी । काञ्चीवाची तालव्यशकारवान् जिह्वावाची तु दन्त्यकारवानित्येष व्यवस्था भूरिप्रयोगाभिप्रायेणोक्ता । वस्तुतस्तु तालव्यशकारवान् रशनाशब्दोपि काञ्च्या जिह्वायां च तथा दन्त्यसकारवान रसनाशब्दोऽप्यर्थद्वये बोध्यः । तथा हि 'तालव्यापि दन्त्याश्च शम्बशूकरपांशवः । रशनापि च जिह्वायाम्' इति विश्वकोशा जिह्वायामुभय साधु । ' रसनं निःस्वने स्वादे रसना काञ्चिजिह्वयोः' इत्यजयधर
1
कोशाभ्यां काञ्च्यामप्युभयं साधु । एवं च 'अशरश च' इति सूत्रे अशू व्याप्तौ प्रश भोजने इति धातुद्वयमपि प्राह्यम् । रस श्रास्वादने, रस शब्दे, इति धातुभ्य तु 'बहुलमन्यत्रापि' इत्यनुपदमेव वक्ष्यमाणेन युच । तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद् इत्याहुः । उन्देः । उन्दी क्लेदने श्रस्माद्युच् । 'ओदनं न स्त्रियां भक्तेऽबलायामोदने स्त्रियाम्' इति मेदिनी । गमेः । गम्लृ गतौ । ' नभोऽन्तरिक्षं गगनम्' इत्यमरः । बहुलमिति । स्यन्दू प्रस्रवणे, रुच दीप्तौ । ' स्यन्दनं तु श्रुतौ नीरे तिनिश ना रथे स्त्रियाम्' इति मेदिनी । 'रोचना रक्तकहारे गोपित्तवरयोषितोः । रोचनः कूट
1