________________
१६८ ]
सिद्धान्तकौमुदी। [ उणादि. (स् ४४६ ) इति सिद्धे नियमामिदम् । उणादिप्रत्ययान्तश्रव्यन्त एवेति । २२४ रातेः । राः रायौ रायः । २२५ गमेझैः। 'गौर्नादित्ये बलीवर्दे किर. णऋतुभेदयोः । स्त्री तु स्यादिशि भारत्या भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु' । बाहुलकावुतेरपि डोः। 'द्यौः स्त्री स्वर्गान्तरि. क्षयोः' इति कोशः । २२६ भ्रमेश्च डूः। भ्रः । चाद्गमेः अग्रेगूः । २२७ दमे सिः । दोः दोषौ । २२८ पणेरिज्यादेश्च वः। वणिक् | स्वार्थेऽण् - प्रत्ययग्रहणपरिभाषया तदन्तपरम् । डोप्रत्ययान्तं शब्दस्वरूपं च्व्यन्तं चेदव्ययसंज्ञकं स्यादित्यर्थः । ग्लौकरोतीति । अग्लोः ग्लौः संपद्यते तथा करोतीत्यर्थः । अव्ययत्वप्रयोजनं तु सुपो लुक् । अस्य नियमार्थत्वमाह कृन्मेजन्त इत्यादिना । नियमाकारमाह उणादिप्रत्ययान्त इत्यादिना । च्व्यन्त इति । तेन नौगौरित्यादौ नाव्ययत्वम् । रातेः । रा दाने इत्यस्माद् डैप्रत्ययो भवतीत्यर्थः । रा इति । रायो हलीत्यात्त्वम् । 'अर्थरैविभवा अपि' इत्यमरः । गमेझैः। गम्लु गतावित्यस्माद् डोप्रत्यय इत्यर्थः । गौरिति । टिलोपे गोतो णिदिति णिद्वद्भावे वृद्धौ च रूपम् । गोशब्दार्थ विवृण्वन् केशवोक्तमाह गौर्नादित्ये इत्यादिना । 'गौरिला कुम्भिनी क्षमा' 'अनड्वान् सौरभेयो गौः' 'माहेयी सौरभेयी गौः' इति चामरः । द्यौरिति रूपमाह बाहुलकादिति । द्युत दीप्तावित्यस्मात्प्रत्यये टिलोपे च रूपम् । 'द्योदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः । भ्रमेश्च डूः । भ्रम अनवस्थाने, चाद् गम्लु गतौ, प्राभ्यां डूप्रत्ययः स्यादित्यर्थः । जित्वाहिलोपः । भ्ररिति । 'ऊचे दृग्भ्यां ध्रुवौ स्त्रियाम्' इत्यमरः । अग्रेगूरिति । सेवक इत्यर्थः । दमे?सिः । दमु उपशमे, अस्माड्डोस्प्रत्यय इत्यर्थः । डित्त्वाहिलोपः । 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । पणेरिज्यादेश्च वः। पण व्यवहारे स्तुतौ च, अस्माद् । 'स्त्रियां तु त्वगसृग्धरा' इत्यमरः । ग्लानुदि। ग्लै हर्षक्षये, णुद प्रेरणे । 'ग्लौमगाङ्कः कलानिधिः' इत्यमरः। 'स्त्रियां नौस्तरणिस्तरिः' इति च । ग्लौकरोतीति । अग्लौः ग्लौः संपद्यते तथा करोतीत्यर्थः । अव्ययत्वात्सुपो लुक् । च्च्यन्त एवेति । तेन ग्लौनांगीरि त्यादीनां नाव्ययत्वमिति भावः। रातेः । रा दाने ।रा इति । 'रायो हलि' इत्यात्वम् । ‘रा स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः' इति मेदिनी। 'रास्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने' इति हेमचन्द्रः । गमे । गम्ल गतौ । 'गोतो णित्' गौः । केशवोकमाह गौर्नादित्य इत्यादि । 'गौः खर्गे वृषभे रश्मौ वजे चन्द्रे पुमान् भवेत् । अर्जुनी नेत्रदिग्बाणभूवाग्वारिषु गौर्मता' इत्यमरः । द्युतेरपीति । द्युत दीप्तौ, द्योतन्ते देवा अस्यामिति द्यौः। भ्रमेश्च । भ्रम