________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६७ श्च । प्रापः । अपः । अद्भिः । अद्भयः । २१७ परौ बजेः षः पदान्ते । प्रजेः किग्दीस्तः पदान्ते तु षश्च । परिव्राट् । परिबाजी । २१८ हुवः श्लुवच्च । जुहूः । २१६ स्रवः कः । नवः । २२० चिक्च । इकार उच्चारणार्थः । क इत् , कुस्वम् । सक् । 'सवं च नचश्च संमृड्ढि' । २२१ तनोतेरनश्च वः । तनोतेश्चिक्प्रत्ययः, अनो वशब्दादेशश्च । स्वक । २२२ ग्लानादिभ्यां डौः। ग्लीः। नौः । २२३ च्विरव्ययम् । डौरित्येव । ग्लौकरोति । 'कृन्मेजन्तः' स्यात् , प्रकृतेर्हखश्चेत्यर्थः । श्राप इति । अतृन्निति दीर्घः । ह्रखश्रवणायाह अप इति । अद्भिरिति । 'अपो भि' इति तकारादेशः, जश्त्वम् । परौ बजेः षा पदान्ते । परावुपपदे व्रज गतावित्यस्माक्विन् दीर्घश्च भवतः। पदान्तस्य तु जकारस्य षकारश्वेत्यर्थः । पदान्तविषये षत्वे कृते उदाहरति परिवाडिति । जश्त्वच। इति भावः । परिवाजाविति । पदान्तत्वाभावान्न षत्वम् । हुवः श्लुवञ्च । हु दानादानयोः, अस्मारिकप, धातोर्दीघः, श्लुवत्त्वं च भवतीत्यर्थः । जुहूरिति । श्लुवद्भावाद् द्विवचने अभ्यासहखे च रूपम् । नवः कः। त्रु गतावित्यस्मात् कप्रत्यय इति भावः । स्रव इति । कित्त्वाद्गणाभावे उवङि च रूपम् । 'ध्रुवोऽपभृज्जुहूर्ना तु स्रवो भेदाः सूचः स्त्रियः' इत्यमरः । अयं सवोऽभिजिहर्ति होमानिति मूल एव जुहोत्यादिव्याख्याप्रकरणे उक्तम् । चिक् च । स्रव इत्यनुवर्तते। गतावित्यस्मात् चिक्प्रत्ययो भवतीत्यर्थः । कित्त्वं गुणनिषेधार्थम् । इकार उच्चारणार्थः । चस्य कुत्वे च स्रक् इति रूपम् । तनोतेरनश्च वः । चिगित्यनुवर्तते । तनु विस्तारे इत्यस्मात् चिक्प्रत्ययः । तन्धात्ववयवस्य अन् इति संघातस्य व इत्यकारविशिष्टः संघातो भवतीत्यर्थः । चस्य कुत्वे च रूपमाह त्वगिति । 'स्त्रियां तु त्वगसृग्धरा' इत्यमरः । ग्लानुदिभ्यां डौः । ग्लै हर्षक्षये, णुद प्रेरणे, आभ्यां डोप्रत्यय इति भावः । ग्लोरिति । टेरिति टिलोपः । ग्लौगाङ्कः कलानिधिः' इत्यमरः । नौरिति। टिलोपे रूपम् । 'स्त्रियां नौस्तरणिस्तारेः' इत्यमरः । च्विरव्ययम् । डौरित्यनुवर्तते। विभूतौ च मतौ च स्त्री' इति मेदिनी। जूराकाशे इत्यादिमूलोदाहृतमिति मेदिनी ।
आमोतेः । आप्ल व्याप्ती, अस्मारिकप् धातोहखश्च । 'आपः स्त्री भूम्नि वारि' इत्यमरः । परी। व्रज गतौ । हुव: । हु दानादनयोः । अस्मारिक धातोश्च दीर्घः श्लुवद्भावाद् द्विवचनम् । स्रवः कः । स गतौ । स्रवो यज्ञपात्रविशेषः । अयं सवो अभिजिहर्ति' 'स्रवेण पार्वणौ जुहोति' इत्यादी प्रसिद्धः । चिक् च । नव इत्येव । योगविभाग उत्तरार्थः । क इदिति । तेन सक् नचौ च इत्यादौ गुणो न । तनोते । तनु विस्तारे, व इति संघातप्रहणम् , तदाह शब्दादेश इति ।