SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १६६ ] सिद्धान्तकौमुदी । [ उणादि रोहिणः । २१४ महेरिनराच । चादिनन् । माहिनम् - महिनम् राज्यम् । २१५ क्विब्वचिप्रच्छित्रिद्र प्रज्वां दीर्घोऽसंप्रसारणं च । वाक् । प्राट् । श्रीः । स्वस्यतो घृतादिकमिति खः, यज्ञोपकरणम् । दुर्हिरण्यम् । कटप्रः कामरूपी कीटश्च । 'जूराकाशे सरस्वत्यों पिशाच्या जवने स्त्रियाम्' । २१६ श्रनोतेर्हस्वमाह गौरादित्वादिति । गुर्विणीति । 'श्रपन्नसत्त्वा स्याद्भविण्यन्तर्वनी च गर्भिणी' इत्यमरः । रुहेश्च । रुह बीजजन्मनि प्रादुर्भावे च श्रस्मादिनन प्रत्यय इत्यर्थः । रोहिण इति । उपधागुणे रूपम् । गौरादित्वाद् रोहिणी । 'अर्जुन्यध्न्या रोहिणी स्यात्' इति वैश्यवर्गे श्रमरः । महेरिनण् च । मह पूजायाम् अस्मादिन‍ स्यात् । चकारादिनन्नपि । माहिनमिति । इनणो णित्वादुपधावृद्धिः । महिनमिति । इननि रूपम् । विब्वचिप्रच्छि । वच परिभाषणे, प्रच्छ ज्ञीप्सायाम्, श्रिञ् सेवायाम् सु गतौ, दुङ् गतौ, प्रुड् गतौ जु गतौ सौत्रः, एषो द्वन्द्वात् षष्ठी । एभ्यः क्विप् स्यात्, दीर्घः कित्त्वात्प्राप्तसंप्रसारणाभावश्व स्यादित्यर्थः । वागिति । क्किपः सर्वलोपितया कुत्वे दीर्घे वचिस्वपियजादीनामिति प्राप्तसंप्रसारणाभावे चरूपम् । प्राट इति । प्रच्छधातोः क्विपि ग्रहिज्येति संप्रसारणाभावे दीर्घे छस्य 'छ्वोः शूडनुनासिके च' इति शकारे व्रश्चेति षत्वे जश्त्वे चले च रूपम् । श्रीरिति । दीर्घे रूपम् । कृदिकारादिति ङीष् तु न शक्यः । कृतो य इकार इति व्याख्यानात् । अत्र इकारस्य कृदवयवत्वं नास्ति, कृत्प्रत्ययस्तु सर्वलुप्तः । स्ररिति । स्रुधातोर्दीर्घे रूपम् । दूरिति । दुधातो रूपम्। जूशब्दार्थं विश्वन्मेदिनी कोशमाह जूराकाशे सरस्वत्यामिति । श्राप्नोतेर्हस्वश्च । श्राप्लु व्याप्तौ अस्मात्क्किप् इति मेदिनी । गर्ने । गर्व मोचनं श्रस्मादिनन् अकारस्य उत् । रुहेश्व । रुह बीजजन्मनि प्रादुर्भावे च । रोहिण इति । प्राज्ञादित्वादणि रौहिणश्चन्दनतरुः । महेः । मह पूजायाम् । 'कुतस्त्वमिन्द्रमाहिनः सन्' इति मन्त्रे माहिनो महनीयः पूजनीय इति वेदभाष्यम् । किन्वचि । वच परिभाषणे, प्रच्छ ज्ञीप्सायाम्, श्रिञ सेवायाम्, स्र गतौ, द्रु गतौ, प्रुड् गतौ, जुगतौ, सौत्रः । वागिति । 'वचिस्वपि-' इति संप्रसारणाभावः । पृच्छतीति प्राट्, 'ग्रहिज्या -' इति संप्रसारणाभावः, 'छोः शुड्-' इति शः, 'वश्व - ' इति षत्वं जश्त्वचवें, प्राशौ प्राशः । श्रीरिति । 'कृदिकारात् -' इति बी न भवति कृत्प्रत्ययस्य य इकार इति व्याख्यानात् । कृदन्तं यदिकारान्तमिति पत्रे तु यद्यपि ङीष्प्राप्तिरस्ति तथापि कारग्रहणसामर्थ्येन केवलस्य काररूयप्रहणादिकारान्तपक्षो दुर्बल इत्याहुः । दुर्घटस्तु ङीषि श्रीमत्यपि रक्षित इच्छतीत्याह । 'भी वषरचना शोभा भारती सरलद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तिविद्योपकरणेषु च । ७ १ 622 6
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy