________________
प्रकरणम् ६७ ]
बालमनोरमा तत्त्वबोधिनीसहिता ।
[ १६५
द्यतेः ‘यत्परुषि दिनम्' । दिवसोऽपि दिनम् । २०८ द्रुदक्षिभ्यामिनन् । द्रवि णम् । दक्षिणः । दक्षिणा । २०६ श्रर्तेः किदिश्च । इरिणं शून्यम् । २१० वपितुयोर्हस्वश्व | विपिनम् । तुहिनम् । २११ तालपुलिभ्यां च । तलिनं विरले स्तोके स्वच्छ्रेऽपि तलिनं त्रिषु । पुलिनम् । २१२ गर्वेरत उच्च । गौरादित्वान्ङीष् । गुर्विणी गर्भिणी । २१३ रुहेश्च ।
अन्येभ्योऽपि धातुभ्य इनज् वक्तव्य इत्यर्थः । कठिनमिति । कठ कृच्छ्जीवने इत्यस्माद्रूपम् । नलिनमिति । णल गहने इत्यस्माद्रूपम् । मलिनमिति । मल धारणे इत्यस्माद्रूपम् | कुण्डिनमिति । कुडि दाहे इत्यस्माद्रूपम् । द्यतेरिति । दो अवखण्डने इत्यस्मादिनच स्यादित्यर्थः । दिनमिति रूपम् । द्रुदक्षिभ्यामिनन् । द्रुतौ, दक्ष वृद्धौ, भ्यामिनन् स्यादित्यर्थः । द्रविणमिति । 'हिरण्यं द्रविणं द्युम्नम्' इत्यमरः । दक्षिण इति । 'दक्षिणे सरलोदारौ सुकलो दातृभोक्करि ' इत्यमरः । अर्तेः किदिश्च । ऋ गतौ श्रस्मादिनन् । स च कित् । धातोरित्त्वं चादेशः । रपरत्वम् । इरिणमिति । 'इरिणं शून्यमूषरम्' इत्यमरः । वेपितुह्योर्हस्वश्च । टु वेपृ कम्पने, तुहिर् अर्दने, अभ्यामिनन् धातोर्हस्वश्चेत्यर्थः । एकारस्य ह्रस्व इकारः । ' अटव्यरण्यं विपिनम्' इत्यमरः । तुहिनमिति । लघूपधगुणे ह्रस्वः । तलिपुलिभ्यां च । तल प्रतिष्ठायाम्, पुल महत्त्वे, आभ्यामिनन्स्यात् । तलिनशब्दार्थं विवृण्वन्नाह तलिनं विरले स्तोक हांते । पुलिनमिति । ' तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । गर्वैरत उच्च । गर्व मोचने, श्रस्मादिनन्, अकारस्य उकार आदेशश्चेत्यर्थः । स्त्रीत्वविवक्षाया
"
'मलिनं दूषिते कृष्णे ऋतुमत्यां तु योषिति' इति मेदिनी । कुण्डिनमिति । 'नगरं कुण्डिनमण्डजो ययौ' इति श्रीहर्षः । कुण्डिन ऋषिः । तस्यापत्यं कौण्डिन्यः । यत्परुषीति । ‘पर्वणि दिनं खण्डितं तद्देवानामिति तैत्तिरीयश्रुत्यर्थः । द्रुदक्षि । द्रु तौ दक्ष वृद्धौ । । ' द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे' इति मेदिनी । 'दक्षिणो दक्षिणोद्भूत सरलच्छन्दवृत्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम्' इति च । 'दक्षिणः सरलोदारपरच्छन्दानुवृत्तिषु । वाच्यवद्दक्षिणा वाचि यज्ञदान प्रतिष्ठयोः' इति विश्वः । श्रर्तेः । ऋ गतौ, श्रस्मादिनन् कित्स्याद् इकारश्च धातो रपरत्वम् । 'इरिणं शून्यमूषरम्' इत्यमरः । 'हरिणं तूपरे शून्येऽपि' इति मेदिनी । वेपि । टुवेट कम्पने, तुहिर् अर्दने, आभ्यामिनन् हखश्च धातोः । ‘अटव्यरण्यं विपिनम्' इत्यमरः । तुहिनमिति । लघूपधगुणे कृते हखः । तलिः । तल प्रतिष्ठायाम्, पुल महत्त्वे । ' तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गकम्'
1