________________
१६४]
सिद्धान्तकौमुदी। [ उणादिपनिपतिखनिभ्यः । आपणिकः । भापनिकः इन्द्रनीलः किरातश्च । प्रापतिकः श्येनो दैवायत्तश्च । भाखनिको मूषिको वराहश्च । २०४ श्यास्त्याहृा. विभ्य इनन् । श्येनः। स्स्येनः । हरिणः । अविनोऽध्वर्युः । २०५ वृजेः किञ्च । वृजिनम् । २०६ अजेरज च । वीभावबाधनार्थम् । अजिनम् । २०७ बहुलमन्यत्रापि । कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । रूपसिद्धेः प्रालि पणिकष इत्यत्र पणिप्रहणं प्रपञ्चार्थम् । उपसर्गान्तरनिवृत्त्यर्थ वा तत् । श्यास्त्याहअविभ्य इनन् । श्यैङ् गतौ, ष्टय शब्दसंघातयोः, हृञ् हरणे, अव रक्षणादौ, एभ्य इनच् स्यात् । श्येन इति । 'पत्री श्येन उलूकस्तु वायसाराति. पेचको' इत्यमरः । स्त्येनश्चोरः । हरिण इति। 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । वृजेः किञ्च । वृजी वर्जने, अस्माद् इनच् स्यात् , स च किद्भवतीत्यर्थः । वृजिनमिति । 'कलुषं वृजिनैनोधमहो दुरितदुष्कृतम्' इत्यमरः । 'जिनं कल्मषे क्लीबम्' इति मेदिनी । अजेरज च । अज गतिक्षेपणयोः, अस्मादिनच् अजेरजादेशश्चेत्यर्थः । न चाजेरजादेशविधानं व्यर्थमिति वाच्यम्, वीभावबाधनार्थ तदावश्यकत्वात् । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । बहुलमन्यत्रापि । पत्ल गतौ, खनु अवदारणे, एभ्य प्राङि उपपदे इकन् स्यात् । आपणिक इति । नन्वत्रैव प्रपूर्वे श्राठि प्रापणिक इति सिद्धौ प्राङि पणीत्यत्र पणिग्रहणं प्रपञ्चार्थ. मित्युज्ज्वलदत्तः । उपसर्गान्तरनिवृत्त्यर्थमिति तु मनोरमायाम् । आपणिकशब्दोऽयं णिस्वरेणाद्युदात्तः । आपणेन व्यवहरतीत्यर्थे ठकि तु कित इत्यन्तोदात्तः । श्यास्त्या । श्यैङ् गतौ, स्यै ष्टथै शब्दसंघातयोः, हृञ् हरणे, अव रक्षणादौ । 'श्येनः पत्रिणि पाण्डुरे' इति मेदिनी । स्येनश्चौरः । स्तेन चौर्ये इति चौरादिकात्पचायचि तु स्तन इति निर्यकारोऽपि । केचित्तु ‘स्तायूनां पतये नमः' इत्यादिप्रयोगोपष्टम्भन निर्यकारस्यापि ष्टैधातोर्माधवादिभिर्वादिषु स्वीकृतत्वात्प्रकृतसूत्रेऽपि ष्टैधातुमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः । 'हरिणः पुंसि सारङ्गे विशदे त्वभिधेयवत् । हरिणी हरितायां च नारीभिवृत्तभेदयोः । सुवर्णप्रतिमायां च' इति मेदिनी। वृजेः । वृजी वर्जने । वृजिनं पापम् । 'जिनं कल्मषे क्लीबं क्लेशे ना कुटिलेऽन्यवत्' इति मेदिनी । अजेः । अज गतिक्षेपणयोरस्मादिनच् । अजेरजादेशविधानं व्यर्थमित्यत आह वीभावबाधनार्थमिति । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः। बहुलमन्यत्रापि । अन्यस्मादपीत्यर्थः । कठ कृच्छ्रजीवने, णल गहने, मल मल्ल धारणे, कुडि दाहे, दो अवखण्डने । 'कठिनमपि निष्ठुरे स्यात् स्तब्धे तु त्रिषु नपुंसकं स्थाल्याम् । कठिनी खटिकायामपि कठिना गुडशर्करायां च' इति मेदिनी।