________________
प्रकरणम् ६७ ] बालमनोरमा-तत्वबोधिनीसहिता। [१९३ कुहकः । कृतकम् । १६६ कृषेवृद्धिश्चोदीचाम् । कार्षकः, कृषकः । १६७ उदकं च । प्रपश्चार्थम् । १६८ वृश्चिकृष्योः किकन् । वृश्चिकः । कृषिकः । १६६ प्राङि पणिकषः। प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी। २०० मुषेदर्दीघश्च । मूषिकः पाखुः। २०१ स्यमेः संप्रसारणं च । चादीर्घः सीमिकः वृक्षभेदः । २०२ क्रिय इकन् । ऋयिकः क्रेता। २०३ आङि पणि. धातोर्धमादेशश्चेत्यर्थः । धमक इति रूपम् । हनो वध च । वधक इति । हन हिंसागत्योः, क्वुनि धातोर्वधादेशे च रूपम् । बहुलमन्यत्रापि । अन्यधातोरपि क्वुनस्यात् । कुहधातोः क्वुनि कुहक इति रूपम् । कृतकमिति । कृती छेदने । कृषवृद्धिश्चोदीचाम् । कृष विलेखने, अस्मात्क्वुन् , उदीर्चा मते वृद्धिश्चेत्यर्थः । उदीचां ग्रहणाद्विकल्पोऽयं वृद्धिविधिः । कार्षकः कृषक इति रूपम् । उदकं च । उन्दी क्लेदने, अस्मात् क्युन् । ननु क्वुशिल्पिसंज्ञयोरित्यादिना संज्ञात्वात्सिद्धमित्यत आह प्रपश्चार्थमिति। वृश्चिकृष्योः किकन् । ओ वश्चू छेदने, कृष विलेखने, आभ्यां किकन्स्यात् , वृश्चिक इति रूपम् । 'किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिके' इत्यमरः । कृषिक इति । 'क्षेत्राजोवः कर्षकश्च कृषिकश्च कृषीवलः' इत्यमरः । प्राङि पणिकषः । प्राङि उपपदे पण व्यवहारे स्तुतौ च, कष हिंसायाभिति धातुभ्यां किकस्यादित्यर्थः। प्रापणिक इति । प्रापर्वकपणधातो रूपम् । प्राकषिक इति । कषधातो रूपम् । मुषेर्दीर्घश्च । मुष स्तेये, इत्यस्मात्किकन् स्याद् धातोर्दीर्घश्चेत्यर्थः । मूषिक इति रूपम् । 'उन्दुरुर्मूषिकोऽऽप्याखु' इत्यमरः । स्यमेः संप्रसारणं च । स्यमु शब्दे, अस्मात् किकन् , धातोः संप्रसारणं दीर्घश्चेत्यर्थः । सीमिक इति रूपम् । क्रिय इकन् । डु कीञ् द्रव्यविनिमये इत्यस्मादिकन्प्रत्यय इत्यर्थः । ऋयिक इति । गुणे अयादेशे च रूपम् । आङि पणिपनि । पण व्यवहारे स्तुतौ च, पन च, पल गतौ, खनु अवदारणे एषां द्वन्द्वात् पञ्चमी। आङि उपपदे एतेभ्यः इकन्प्रत्ययः स्यात् । प्राङि उपपदेऽनेन इकना कुहको दाम्भिकः । कृतकमिति । कृती छेदने । कृषः। कृष विलेखने । आस्मात्कन् वृद्धिश्च कार्षकः कृषीवलः । कृषकः स एव । 'कृषकः पुंसि फाले स्यात्कार्षके त्वभिधेयवत्' इति मेदिनी । उदकं च । उन्दी क्लेदने अस्मात्वन् । ननु 'क्वन् शिल्पि-' इत्यादिना गतार्थमित्याशङ्कायामाह प्रपञ्चामिति । वृश्चिकृष्योः। श्रोत्रश्चू छेदने, कृष विलेखने । प्राङि । पण व्यवहारे । कषशिषति दण्डके हिंसार्थकः । मुषेः । मुष स्तेये अस्मात्किकन् धातोर्दीघश्च । स्यमेः । स्यमु शब्दे । क्रियः । डुक्रीञ् द्रव्यविनिमये । प्राऊि पणि । पण व्यवहारे स्तुतौ च, पन च,