________________
१९२]
सिद्धान्तकौमुदी। [ उणादिः नशेर्नुम् , नंशुकः। १८६ भियः क्रुकन् । भीरुकः।१६० क्युशिल्पिसंशयोरपूर्वस्यापि । रजकः । इतुकुट्टकः । चरकः । 'चष भक्षणे'। चषकः। शुनकः । भषकः । १६१ रमे रश्च लो वा । रमको विलासी । बमकः । १९२ जहातेर्दै च । जहकस्त्यागी कालश्च । १६३ ध्मो धम च । धमकः कर्मकारः । १६४ हनो वध च । वधकः १६५ बहुलमन्यत्रापि । 'कुह विस्मापने' । णित्त्वाद् वृद्धिः । पाकुकः नंशुक इति रूपम् । भियः क्रुकन् । जि भी भये इत्यस्मात् क्रुकन्प्रत्यय इत्यर्थः । भीरुक इति रूपम् । 'भीरुकः कारुकः सस्तो भीरुभीरुकभीलुकाः' इत्यमरः । क्वुशिल्पि । शिल्पिन्यभिधेये संज्ञायां च गम्यमानायां क्वुनस्यात् । अपूर्वस्य निरुपपदस्येत्यर्थः । पञ्चम्यर्थे षष्ठी । अपिशब्दात्सोपपदादपि । शिल्पिन्युदाहरति रजक इति । रञ्ज रागे इत्यस्मात् क्वुनि नलोपे अकादेशे च रूपम्। 'निर्णेजकः स्याद्रजकः शाण्डिको मण्डहारकः' इत्यमरः। सोपपदादुदाहरति इक्षुकुट्टक इति । कुट्ट छेदने, इतून कुट्टयतीति इक्षुकुट्टकः । संज्ञायामुदाहरति चरक इति । 'पातकोद्योगचरकतमालामलका नडः' इत्यमरः । चषक इति । 'चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्' इत्यमरः। शुनक । इति । शुन गतावित्यस्मात्क्वुनि रूपम् । भषक इति । भष भर्सने इत्यस्माद्रूपम् । 'शुनको भषक: श्वा स्यादलकैस्तु स रोगितः' इत्यमरः । रमे रश्च लो वा । रमु क्रीडायामित्यस्मात् क्युन्स्यात् , धातो रंफस्य लकारश्च वेत्यर्थः । लमक इति रूपम् । जहाते च । ओ हाक् त्यागे, अस्मात् क्वुनस्यात् , धातोदित्वं च स्यादित्यर्थः । जहक इति रूपम् । ध्मो धम च । ध्मा शब्दामिसंयोगयोः, अस्मात्क्युन्स्याद् समि कस । 'संससुकोऽस्थिरः' इति विशेष्यनिनेऽमरः । पचिनशोःडुपचष् पाके, णश अदर्शने । श्राभ्यां णुकन् प्रत्ययः स्यात् । कारो वृद्धयर्थः । अनयोर्ययाक्रमं कादेशनुमागमौ च भवतः । भियः । सिमी भये 'अधीरे कातरस्त्रस्नी भीरुभीरुकभीलुका इत्यमरः । कुन् । शिल्पिन्यभिधेये संज्ञायां गम्यमानायां च क्वन् स्यादपूर्वस्य निरुपपदस्य च अपिशब्दात्सोपपदस्य । पञ्चम्यर्थे षष्ठी । यद्वा अर्थद्वारकसंबन्धे षष्ठी, प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात् । एवं च निरुपपदप्रकृत्यर्थनिरूपितकर्तृकारके कभित्याद्यर्थः फलितः। शिल्पिनि तावत् । रज रागे। 'रजको धावके शुके' इति विश्वः । 'रजको धावकशुकौ' इति हेमचन्द्रः । 'कुट्ट च्छेदने' इथून कुट्टयति गौडिकः । चर गतिभक्षणयोः । संज्ञायां तु 'चषकोऽस्त्री पानपात्रम्' । शुन गती, भष भर्त्सने, शुनकः भषव.: श्वा । लमक इति। ऋषिविशेषः । जहातेः । ओहाक् त्यागे। ध्मो धम च। ध्मा शब्दामिसंयोगयोः।