________________
प्रकरणम् ६७ ] बालमनोरमा-तत्वबोधिनीसहिता ।
[ १६१ इस्वम् । विप्रः । कुम्बिचुम्नयोर्नलोपः । कुब्रमण्यम् । चुबं मुखम् । 'तुर विलेखने' रेफलोपः भगुणः । तुरः । 'खुर छेदने' रलोपो गुणाभावश्व, खुरः । भन्देर्नलोपः, भद्रम् । 'उच समवाये' चस्य गः, उग्रः । त्रि भी, भेरी । पत्ते लः भेलो जलतरणद्रव्यम् । शुचेश्वस्य कः, शुक्रः । पते लः शुक्लः । गुड् । वृद्धिः । 'गौरोऽरुणे सिते पीते' | 'वन संभको' वनो विभागी । इणो गुणाभावः । 'इरा मद्ये च वारिणि' । 'मा माने' माला । १८७ समि कस उकन् । 'कस गतौ' सम्यक् कसन्ति पलायन्ते जना श्रस्मादिति संकसुकः, दुर्जनः, अस्थिरश्च । १८८ पचिनशोर्युकन्कनुमौ च । पचेः कः । पाकुकः सूपकारः ।
समि कस उकन् । कस् गतौ श्रस्मात्समि उपपदे उकन्प्रत्यय इत्यर्थः । संकसुक इति रूपम् । पचिनशोकम्कनुमौ च । डु पचय् पा, राश अदर्शने, आभ्यां शुकन्प्रत्ययः स्यात् । अनयोः क्रमेण कादेशनुमागमौ च भवत इत्यर्थः । कनो
क्षुरो लोमच्छेदकः । ' तुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे' इति विश्वमेदिन्यौ । 'खुर: कोलदले शफे' इति मेदिनी । 'भद्रः शिवे खञ्जरीटे वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयो:' इति च । 'उप्रः शूद्रासुते तत्राद्रुदे पुंसि त्रिषूत्कटे । स्त्रीवचाक्षुद्रयो:' इति मेदिनी । भेरीति । गौरादित्वान्ङीष् । भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । ' भेलः प्लवे भीलुके च निर्बुद्धिमुनिभेदयोः ' इति विश्वः । ‘भेलः प्लवे मणौ पुसि भीरावज्ञे च वाच्यवत्' इति । 'शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबं शुक्लो योगान्तरे सिते । नपुंसकं तु रजते ' इति च । 'गौरः पीतेऽरुणे श्वेते विशुद्धेऽप्यभिधेयवत् । ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे । गौरी त्वसंजातरजः कन्याशंकर भार्ययोः । रोचने रजनीपिताप्रियङ्गुवसुधासु च । श्रपगाया विशेषेऽपि यादसांपतियोषिति' इति च मेदिनी । 'नदीभेदे च गौरी स्याद्वरुणस्य च योषिति' इति विश्वः । 'अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते । सा गौरी तत्सुतो यस्तु स गौरः परिकीर्तितः' इति ब्रह्माण्डवचनं श्राद्धकाण्डे हेमाद्रिणोदाह एतेन 'गौरः शुच्याचारः ' इत्यादि भाष्यं व्याख्यातम् । ‘इराभूत्राक्सुराप्सु स्यात्' इत्यमरः । मालेति । प्रत्ययरेफस्य लत्वम् । 'मालं क्षेत्र स्त्रियां पृक्कास्रजोर्जात्यन्तरे पुमान्' इति मेदिनी । 'मालं क्षेत्रे जिने मालो माला पुष्पादिदामनि' इति विश्वः । 'मालमुन्नतभूतलम्' इत्युत्पलः । ' क्षेत्रमारुह्य मालम्' इति मेघदूतः । मणिपूर्वोऽयमर्थान्तरे रूढः 'मणिमाला स्मृता हारे स्त्रीणां दन्तक्षतान्तरे' इति विश्वः