SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६० ] सिद्धान्तकौमुदी। [उणादि. सौत्रः । शूरः । सीरम् । चीरम् । मीरः समुद्रः। १८४ वाविन्धेः। वीधं विमलम् । १८५ वृधिवपिभ्यां रन् । वधं चर्म । वप्रः प्राकारः । १८६ ऋजेन्द्राग्रवज्रविप्रकुब्रचुव्रक्षुरखुरभद्रोग्रभरभेलशुक्रशुक्लगौरवनेरामालाः। रखता एकोनविंशतिः। निपातनाद् गुणाभावः। ऋज्रो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । 'वज्रोऽस्त्री हीरके पवौ'। डु वप् , उपधाया धातुपाठेऽदर्शनादाह--शुः सौत्र इति । चीरमिति । 'माणिक्यभाष्यसिन्दूरचीर. चीवरपिञ्जरम्' इत्यमरः । मीर इति । मिधातो रूपम् । वाविन्धेः । वावुपपदे इन्धी दीप्तावित्यस्मात्कन्स्यादित्यर्थः । वीध्रमिति.। अनिदितामिति नलोपः । 'वीधं तु विमलात्मकम्' इत्यमरः । वृधिवपिभ्यां रन् । वृधु वृद्धौ, डु व बीजसन्ताने, आभ्यां रन्प्रत्ययः स्यात् । वर्धमिति । रनि उपधागुणः । 'नधी वर्धा वरत्रा स्यान्' इत्यमरः । वप्र इति । 'वप्रस्तापे पुमानस्त्री वेणु क्षेत्रच तटे' इत्यमरः । ऋजेन्द्राग्र । ऋज गतिस्थानादिषु, इदि परमैश्वर्य, अगि गतौ, वज गती, डु वप् बीजसन्ताने, कुबि आच्छादने, चुबि वक्त्रसंयोगे, तुर विलेखने, खुर छेदने, भदि कल्याणे, उच समवाये, जि भी भये, शुच शोके, गुङ् अव्यक्के शब्दे, वन संभक्तो, इण् गतौ, मा माने, एते रन्नन्ता निपात्यन्ते । ऋज्र इत्यत्र उपधागुणमाशङ्कयाह निपातनादिति । अगिधातोरिगित्त्वादाह अङ्गेनेलोप इति । शेषं स्पष्टम् । बन्धने, चिञ् चयने, डुमिञ् प्रक्षेपणे, एभ्यः क्रन् एषां दीर्घत्वं च । 'शूरः स्याद्यादवे भटे' इति मेदिनी । 'शूरश्चारुभटे सूर्ये' इति विश्वहेमचन्द्रौ । 'सीरोऽहलयोः पुंसि चीरी झिल्लयां नपुंसके । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोः' इति मेदिनी। 'चीरं तु गोस्तने वस्त्रे चूडायां सीसकेऽपि च । चीरी कृच्छ्राटिकाभिल्लयोः' इति विश्वः । वा विन्धेः। बिइन्धी दीप्तौ। विपूर्वादस्मात् कन् , 'अनिदेिताम् ' इति नलोपः । 'बीधं तु विमलार्थकम्' इति विशेष्यनिनेऽमरः । वृधि । वृधु वृद्धौ, डुवप् बीजसन्ताने । 'वप्रः पितरि केदारे वप्रः प्राकाररोधसोः' इति धरणिरन्तिदेवौ । "वप्रस्ताते पुमानस्त्री वेणुक्षेत्रचये तटे' इति मेदिनी । ऋजेन्द्राय । ऋज गतिस्थानादिषु, इदि परिमैश्वर्ये, अगि गतौ, वज गती, डुवप् बीजसन्ताने, कुबि आच्छादने, चुबि वक्त्रसंयोगे, भदि कल्याणे, शुच शोके, गुङ् अव्यक्ते शब्दे, इण गतौ । नायक इति । 'ऋज्राश्वः पृष्टिभिरम्बरीषः' इति मन्त्रे ऋज्रा गतिमन्तोऽश्वा यस्य से ऋजाश्व इति वेदभाष्यम् । 'इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः' इति विश्वः । 'अगं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे च प्रान्ते स्यात्पुनपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' इति मेदिनी।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy