________________
प्रकरणम् ६७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८६ प्रवर्षेति' । १८१ जोरी च । जीरोऽणुः । ज्यश्चेत्येके। १८२ सुसूधागृधिभ्यः क्रन् । सुरः । सूरः । धीरः । गृध्रः । १८३ शुसिचिमीनां दीर्घश्च । शुः पर्णशोषानन्तरं पर्णमुचो वाता वान्ति । पर्ण मोचयन्तीति पर्णमुचः । पर्णमोचनान्तरं पर्णरुहो वाता वान्ति । पर्ण रोहयन्तीति पर्णरुहः । ततो देवः वृष्टिं करोतीत्यर्थः । अत्र संज्ञाछन्दसोरभावेऽपि गर्नु । जोरी च । जु इति सौत्रो धातुः, अस्माद् रक् स्यात् , ईकारश्चान्तादेश इत्यर्थः । जीर इति । 'जीरस्तु जरणे खङ्गे' इति मेदिनी । ज्यश्चेत्यक इति । ज्या वयोहानी, अस्माद् रकि अहिज्येति संप्रसारणं पूर्वरूपं 'हलः' इति दीर्घ च, जीर इति रूपमित्यर्थः । इदमेव च सम्यक् । अत एव भाष्ये न धातुलोपसूत्रे 'जीवेरदानुः' इति वार्तिकस्य प्रत्यख्यानार्थ नैतद् जीवे रूपम् , अपि तु ज्याधातो रकि इति उक्तम् । सुसूधागृधिभ्यः कन् । षुञ् अभिषवे, खूङ् प्राणिगर्भविमोचने, डु धाञ् धारणपोषणयोः, गृधु अभिकाक्षायाम् , एषां द्वन्द्वात् पञ्चमी । एभ्यः क्रन्प्रत्ययः स्थादित्यर्थः। सुरेति । कित्त्वान्न गुणः । रका सिद्धे ऋविधिः नित्स्वरार्थः । 'सुरा हलिप्रिया हाला' इत्यमरः । सूर इति । 'सूरसूर्यमादित्यद्वादशात्मदिवाकराः' इत्यमरः। धीर इति । घुमास्थेतीत्वम् । 'धीरो मनीषी ज्ञः प्राज्ञः' इत्यमरः । शुसिचिमीनां दीर्घश्च । शु गतौ, सिञ् बन्धने, चिञ् चयने, डु मिञ् प्रक्षेपणे, एम्यः क्रन्प्रत्ययः स्यात् , प्रकृतिभूतानामेषां दीर्घश्च । शु गतावित्यस्य प्रत्ययलक्षणन्यायो न प्रवर्तत इति मित्त्वाभावादिष्टं सिध्यति । बाहुलकादसंज्ञाछन्द. सोरपि क्वचिद्भवतीत्याशयेनोदाहरति वान्तीत्यादि । पर्णानि शोषयन्तीति पर्णशुषः पर्णानि मोचयन्तीति पर्णमुचः । जोरी च । जु गतौ सौत्रोऽस्माद्रक् ईकारश्चान्तादेशः । 'जीरः खङ्गे वणिग्द्रव्ये' इति विश्वः । 'जीरस्तु जरणे खङ्गे' इति मेदिनी । ज्यश्चेति । ज्या वयोहानौ । अस्माद्रक् 'अहिज्या-' इति संप्रसारणं पूर्वरूपम् 'हलः' इति दीर्घः । एके इति । मुख्या इत्यर्थः। तथा च 'न धातुलोप-' इति सूत्रे जीवेरदानुरित्यस्य प्रत्याख्यानार्थ नैतज्जीवे रूपं किं तु 'रकि ज्यः संप्रसारणम्' इति भाष्ये उक्तम्। सुसूधा । षुञ् अभिषवे, धुञ् प्राणिगर्भविमोचने, डुधाञ् धारणादौ, गृधु अभिकाङ्क्षायाम् । 'सुर। चषकमययोः। पुल्लिङ्गस्त्रिदिवेशे स्यात्' इति मेदिनी । 'सुरो देवे सुरा गये चषकेऽपि सुरा क्वचित्' इति विश्वः । सुवति प्रेरयति कर्मणि लोकमिति सूरः सूर्यः । 'सूरसूर्यमादित्य' इत्यमरः । 'धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे । स्त्रियां श्रवणतुल्यायाम्' इति मेदिनी । 'गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके' इति च । शुसिचि । शु गती, षिज