________________
१८८]
सिद्धान्तकौमुदी। [ उणादिः रोदयतीति रुद्रः। १८० बहुलमन्यत्रापि संशाछन्दसोः। णिलुगिस्येव । 'वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे। ततः पर्णरुहो वान्ति ततो देवः णेरनिटीति लोपे सिद्धे लुग्वचनं प्रत्ययलक्षणेन गुणाभावार्थम् । रोदयतीति रुद्र इति । रकि रूपम् । बहुलमन्यत्रापि संशाच्छन्दसोः। संज्ञाच्छन्दसोरन्यत्रापि धात्वन्तरात् प्रत्ययान्तरेऽपि बहुलं गलुंग वक्तव्य इत्यर्थः। संज्ञायामुदाहरणं बंहयति वर्धयति प्रजा इति ब्रह्मा । णेलृक् । छन्दसि तु 'वर्धन्तु त्वा सुष्टुतयः । वर्धयन्त्वित्यर्थः । बाहुलकात्संज्ञाछन्दसोरभावेऽपि क्वचिद् भवतीत्याह वान्ति पर्णशुष इति । प्रथमतः पर्सशुषः वाता वान्ति पर्णं शोषयन्तीत्यर्थः । इति गुणः स्यादिति णिलुक् चेत्युक्तम् । रोदयतीति रुद्र इति । नन्वेवं 'सोऽरोदीद्यदरोदीत्तद्रुदस्य रुद्रत्वम्' इति श्रुत्या सह विरोधोऽत्र स्यादिति चेत् । अत्राहुः'कर्तरि कृत्' इति सूत्रानुरोधेन शम्भुरित्यत्र शं भावयतीत्यन्तर्भावितण्यर्थता यथा स्वीक्रियते तथा अरोदीदित्यत्राप्यन्तर्भावितण्यर्थतायां स्वीकृतायां रोदनं कारितवानित्यर्थलाभानास्ति श्रुतिविरोधः । न च देवैरमौ वामं वसु स्थापितं तच्च धनं देवैर्याचितं चेदग्निस्तु रोदनं कृतवानिति सोऽरोदीदित्यादिश्रुत्यर्थादिहान्त वितण्यर्थकल्पनं न संभवतीति श्रुतिविरोधस्त्वपरिहार्य एवेति वाच्यम् । देवैः स्थापितं वामं वसु देवे. भ्योऽग्निना न दत्तं ते देवा एव रोदनं कृतवन्तः । अमिस्तु तमदत्वा रोदनं कारितवानित्यर्थकल्पनायाः संभवात् । अथवाग्नौ प्रयुज्यमानरुद्रशब्दस्य रोदितीति रुद्र इत्येवार्थोऽस्तु परन्तु ब्रह्मविष्णुरुदा इति व्यवह्रियमाणो यो रुदस्तद्वाचकरुद्रशब्दस्य रोदेरित्युणादिसूत्रानुरोधेन रोदयतीति रुद्र इत्येवार्थकल्पनायां बाधकाभावात् श्रुतिविरोधोऽत्र नास्त्येवेति । अन्यत्रापीति । धात्वन्तरात्प्रत्ययान्तरेऽपि णे गित्यर्थः। संज्ञायामुदाहरणम् । बृंहयति वर्धयति प्रजा इति ब्रह्मा । शं सुखं भावयतीति शम्भु. रित्यादि । छन्दसि तु वृद्ध वृद्धौ । 'वर्धन्तु त्वा सुष्ठुतयः' वर्धयन्त्वित्यर्थः । 'य इमा जजान' । जनी प्रादुर्भावे लिटि रूपम् । जनयामासेत्यर्थः । इह णलि परतः 'अत उपधायाः' इति वृद्धिर्भवत्येव, 'जनिवध्योश्च' इति निषेधस्य चिणि जिति णिति किति च स्वीकारात् । न च णिलोपे सति प्रत्ययान्तत्वात् 'कास्प्रत्ययात्-' इत्याम्स्यादिति वाच्यम् , अमन्त्र इति पर्युदासादामोऽप्रसक्तः । कास्यनेकाच इति वार्तिकेन तु आम्शङ्का दुरापास्तव, लिटि णिलोपे सत्यनेकाच्वाभावात् । ननु णलि 'णेरनिटि' इत्यनिडादावार्धधातुके णिलोपे जजानेति रूपं सिद्धमिति किमनेन लुक्युदाहरणेनेति चेन्मेवम् । णिलोपे सति 'जनीजषकसुरजोऽमन्ताश्च' इति णौ मित्त्वे 'मिता हवः' स्यात् प्रत्ययलक्षणन्यायेन णिपरत्वसंभवात् । ततश्च जजनेति स्याल्लुकि सति तु