SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८७ ताम्रम् । १७४ निन्देनलोपश्च । निद्रा। १७५ अर्देीर्घश्च । प्राईम् । १७६ शुचेर्दश्च । शूद्रः। १७७ दुरीणो लोपश्च । दुःखेनेयते प्राप्यत इति दूरम् । १७८ कृतेश्च्छः क्रू च । कृच्छ्रम् । क्रूरः । १७६ रोदेर्णिलुक् च । अम गत्यादिषु, तमु काङ्क्षायाम् , आभ्यां रक्प्रत्ययः, प्रकृतेरचो दीर्घश्चेत्यर्थः । आम्रमिति । 'आम्रश्चूनो रसालोऽसौ' इत्यमरः। ताम्रमिति । तमुधातो रूपम् । निन्दनलोपश्च । णिदि कुत्सायामस्माद्धातोः रक्प्रत्ययः, तत्संनियोगेन धातोर्नकारस्य लोपश्चेत्यर्थः । निद्रेति । इदित्त्वान्नुमि तस्य लोप इत्यर्थः । 'स्थानिद्रा शयनं स्वापः' इत्यमरः । अर्दीर्घश्च । अर्द गतौ याचने च अस्माद् रक्प्रत्ययः धातोर्दीर्घश्वेत्यर्थः । आईमिति रूपम् । 'आई साई क्लिनं तिमितम्' इत्यमरः । शुचेर्दश्च । शुच शोके, अस्माद् रक् , धातोर्दकारश्चान्तादेशः, उपधाया दीर्घश्वेत्यर्थः । 'शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः' इत्यमरः। दुरीणो लोपश्च। इण् गतावित्यस्माद् दुर्युपपदे रक् स्यात् , धातोर्लोपश्चेत्यर्थः। रकि रोरीति रेफस्य लोपे दलोप इति दीर्घ इति भावः । कृतेच्छः क्रू च । कृती छेदने इत्यस्माद् रक् स्यात् प्रकृतेरन्त्यस्य तकारस्य छकारादेशः । क्रू इति अनेकाल्त्वात्सर्वादेशश्च स्यादित्यर्थः । स्यात्कष्ट कृच्छमाभीलं त्रिवेषां भेद्यगामि यत् । देवभूयादिकं तद्वत् कृच्छं सान्तपनादिकम् । मुंशसो घातुकः क्रूरः प्रायो धूर्तस्तु वञ्चकः ।' इत्यमरः। रोदेर्णिलुक्च । रुदिर् अश्रुमिमोचने ण्यन्तादस्माद् रक्प्रत्ययः गर्नुक्च स्यात् । स्त्वम्लेऽम्लवेतसे । चुकी चाभेरिकायां स्याद् वृक्षाम्लं चुक्रमिष्यते' इति विश्वः । वौ कसेः । कस गतौ । विपूर्वादस्मादक् स्यादुत्वं चोपधायाः। अमि । अम गत्यादिषु, तमु काक्षायाम् । श्राभ्यां रक् स्यादुपधाया दीर्घश्च । निन्देः । णिदि कुत्सायाम् । अः। अर्द गती। 'श्रा नक्षत्रभेदे स्यास्त्रियां क्लिन्नेऽभिधेयवत्' इति मेदिनी । शुचेः। शुच शोके, अस्माद्रक दश्चान्तादेशः धातोर्दीर्घश्च । शूदो वृषलः। 'अहहा रे त्वा शूद्र' इति श्रुतौ तु रूढेबर्बाधाद् योग एव पुरस्कृतः। तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रित 'शुगस्य तदनादरश्रवणात्' इति । दुरीणो। इण गतावित्यस्माद्दुरुप. पदे रक् स्याद्धातोर्लोपश्च । 'रो रि' इति रेफस्य लोपे 'ठूलोपे-' इति दीर्घः। कृतेः। कृती च्छेदने इत्यस्मात् स्याच्छःक्रू इत्येतावादेशौ च स्तः । छस्त्वन्त्यस्यादेशः। त्वनेकालत्वात्सर्वस्यादेशः । 'कृच्छ्रमाख्यातमाभीले । पापसंतापनादिनोः' इति विश्वमेदिन्यौ । 'स्यात्कष्टं कृच्छ्रमाभीलम्' इत्यमरः । 'क्रूरस्तु कठिने घोरे नृशंसे चाभिधेयवत्' इति विश्वः । 'नृशंसो घातुकः 'क्रूरः पापो धूर्तस्तु वञ्चकः' इत्यमरः । रोदे। रुदिर् अश्रुविमोचने, ण्यन्तादस्मादक् णेश्च लुक् । 'णेरनिटि' इति लोपे तु 'पुगन्त-'
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy