________________
१८६ ] सिद्धान्तकौमुदी। [उणादि. शिस्पृहिसवनादीनाम् । (८-३-११०) रेफपरस्य सकारस्य सृष्यादीनां सवनादीनां च मूर्धन्यो न स्यात् । 'पूर्वपदात्' (सू ३६४३) इति प्राप्तः प्रतिषिध्यत इति वृत्तिभूयोऽभिप्राया। तेन 'शासिवसि-' (सू २४१० ) इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । वानं मन्दिरम् । शीरोजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम् । बाहुलकात् मुसेरक , मुस्रम् उदश्रु । १७१ चकिरम्योरुच्चोपधायाः। चुकमम्लद्रव्यम् । रुम्रोऽरुणः । १७२ वौ कसेः । विकुत्रश्चन्द्रः । १७३ अमितम्योर्दीर्घश्च । आम्रम् । द्वन्द्वात्षष्ठी। अवयवावयविभावः षष्ठयर्थः। तथा चैतदवयवस्य सकारस्य षत्त्वं न स्यादित्यर्थः । उस्र इति । वसधातो रकि तस्य कित्त्वात्संप्रसारणेऽनेन षत्त्वनिषेधे च रूपम् । नन्वत्रानेन षत्वाभावकथनमसंगतम् , अस्य सूत्रस्य 'पूर्वपदात्संज्ञायामगः' इति प्राप्तस्य षत्वस्य निषेधकताया वृत्त्यादिषु उक्तत्वात् । अत्र तु न तेन षत्वप्राप्तिः । अपि तु शासिवसीत्यनेनैवेत्याशङ्कायामाह भूयोऽभिप्रायेति । तस्माद् वृत्तिग्रन्थ एतनिषेधकत्वस्यापि बोधक एवेति भावः । उस्रो रश्मिरिति । 'किरणोऽसमयूखांशु' इत्यमरादिति भावः । 'उस्रो वृषे च किरणे' इति मेदिनी। उप्रेति । 'माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी' इत्यमरः । वाश्र इति। वाश्धातो रूपम् । मुस्रमिति । मुस खण्डने, इत्यस्मादूपम् । चकिरम्योरुश्चो. पधायाः । चक तृप्तौ, रमु क्रीडायम्, प्राभ्यां रक्प्रत्ययः, उपधाया उकार श्वेत्थयः । चुक इति । 'सहस्रवेधी चुकोऽम्लवेतसः' इत्यमरः । वौ कसेः। कस गतौ, विपूर्वादस्माद् रक् स्यादुत्वं चोपधायाः । विकुस्र इति रूपम् । अमितम्योर्दीर्घश्च । चसम्' इति मन्त्रे वेदभाष्यकारैरित्थं व्याख्यातं प्रकृतसूत्रे उज्ज्वलदत्तादिभिश्च । दशपादीवृत्तौ तु तृप्रमाज्यं काष्ठं चेत्युक्तम् । तृपं दुःखमिति सुब्धातुवृत्ती माधवः । हिमांशुरित्यादि हिमद्युतिरित्यन्तं शब्दार्णवः । दस्यति रोगान् क्षिपतीति 'दस्रः खरेऽ. श्विनीसुते' इति मेदिनी । 'दस्रः खरे चाश्विनयोः' इति विश्वः । शासिवसीति प्राप्तमपि नेति । एवं च 'अविन्द उनियाः' इति मन्त्रे षत्वाभावः सिद्धः । माध. वस्तु वृत्तिग्रन्थानुरोधेन बाहुलकादिह षत्वं नेति व्याचष्ट । 'उस्रो वृषे च किरणे उस्रार्जुन्युपचित्रयोः' इति मेदिनी । 'माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी' इत्यमरः । 'वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे' इति मेदिनी । 'वाश्रो रासभपक्षिणोः' इति केचित् । माधवेन तु 'वावेव विद्युन्मिमाति' इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना भेनुर्वाश्रेति व्याख्यातम् । 'शुभ्रं स्यादनके क्लीवमुद्दीप्तशुक्लयोस्त्रिषु' इति मेदिनी । मुत्रमिति । मुस खण्डने । चकि। चक तृप्ती, रमु कीडायाम् , 'चुक