________________
१८४]
सिद्धान्तकौमुदी। [उणादिगूथयूथप्रोथाः। तिजेलोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । 'प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते'। १७० स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिपिवन्युन्दिश्चितिवृत्यजिनीपदिमदिमदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीहसिसिधिशुभिभ्योरक् । द्वात्रिंशतो रक्स्यात् । वलि यलोपः । स्फारम् । न्यङ्कादित्वासेचने, गु पुरीषोत्सर्गे, यु मिश्रणे, प्रुङ् गतौ, एते थक्प्रत्यान्ता निपात्यन्त इत्यर्थः । तिज निशाने इत्यस्मात् थकि श्राह तिजेर्जलोप इति । तस्यार्थमाह काम इति । पृष्ठमिति । 'पृष्ठं तु चरमं तनोः' इत्यमरः । 'पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे' इति मेदिनी । गृथमिति । धातोर्दीर्घत्वं च निपात्यते । विष्ठति । 'पुरीषगूथे वर्चस्कमस्त्री विष्ठाविशी स्त्रियाम्' इत्यमरः । यथमिति । अत्रापि निपातनाद्दीर्घः । समूह इति । 'सजातीयः कुलं यूथं तिरश्च पुंनपुंसकम्' इत्यमरः । प्रोथामिति । घुधातो रूपम् । ननु थकः कित्त्वेन कथं गुण इत्यत आह निपातनादिति । क्वचिदिदं वाक्यं मूलपुस्तकेषु नोपलभ्यते । 'गतयोऽमूः पञ्च धाराः घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । 'पोथोऽस्त्री हयघोणायाम्' इति मेदिनी । स्फायित. श्चिवश्चि । स्फायी वृद्धौ, तञ्चु संकोचने, वञ्चु प्रलम्भने, शक्ल शक्ती, क्षिप प्रेरणे, क्षुदिर् संपेषणे, सृप्ल गतौ, तृप प्रीणने, दृप हर्षमोचनयोः, वदि अभिवादनस्तुत्योः, उन्दी क्लेदने, श्विता वर्णे, वृतु वर्तने, अज गतिक्षेपणयोः, णीञ् प्रापणे, पद गतो, मदी हर्षे, मुद हर्षे, खिद दैन्यै, छिदिर् द्वैधीकरणे, भिदिर् विदारणे, मदि स्तुती, चदि आह्लादने, दह भस्मीकरणे, दसु उपक्षये, दम्भु दम्भने, वस निवासे, वाच शब्दे, शीङ् स्वप्ने, हसे हसने, षिध गत्याम् , शुभ दीप्तौ, एषां द्वन्द्वात्पञ्चमी । एभ्यो धातुभ्यो रक्प्रत्यय इत्यर्थः । यकारलोपमाह वलि यलोप इति । स्फारमिति । नेडवशि कृतीति निषेधादिडागमो न भवति । स्फारं भूयश्च भूरि जयार्थमत्रेति व्युत्पत्तेः । संपूर्वस्येणः क्विन्नाद्यन्तस्य लोकेऽपि युद्धार्थत्वदर्शनाच । उक्त यमरेण 'समित्याजिसमिद्युधः' इति । तिथपृष्ठ । तिज निशाने, पृषु सेचने, गु पुरीपोत्सर्गे, यु मिश्रणे, प्रुङ गतौ-एते थक्प्रत्ययान्ता निपात्यन्ते । 'पृष्ठं तु चरमं तनोः' इत्यमरः । 'पृष्ठं चरममात्रेऽपि देहस्यावयवान्तरे' इति मेदिनी। स्तोत्रविशेषोऽपि पृष्ठम् , 'पृष्ठैः स्तुवते' इत्यादौ तथा निर्णयात् । गूथमिति । निपातनाद्दीर्घः। एवं यूथेऽपि । 'यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदेऽपि योषिति' इति मेदिनी । 'युथी पुष्पप्रभेदे स्यान्मागध्यां च कुरण्टके । बूथं तिर्यक्समूहेऽपि वृन्दमात्रेऽपि भाषितम्' विश्वः। 'यूथं तदप्रसरगर्वितकृष्णसारम्' इति रघुः। प्रोथमिति। निपातनाद् गुणः।