________________
प्रकरणम् ६७] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८३ 'तीय शास्त्राभ्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भः स्वीरजःसु च.. विश्रुतम् ।' इति विश्वः । तुस्थोऽग्निः । उक्थं सामभेदः। रिक्थम् । बाहुलकाहुचेरपि । 'रिक्थमृक्थं धनं वसु' । सिक्थम् । १६५ अर्तनिरि । निथं साम । १६६ निशीथगोपीथावगथाः । निशीथोऽर्धरात्रो रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्त्रातः । १६७ गश्चोदि । उद्गीथः सानो भागविशेषः । १६८ समीणः । समिथो वह्निः, संग्रामश्च । १६६ तिथपृष्ठगुरौ' इत्यमरः । विश्वकोशमाह तीर्थ शास्त्राध्वरेत्यादि । तुत्थ इति । 'रजनी श्रीफली तुत्था द्रोणा दोला च नीलिनी । सूचमोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः' इत्यमरः । उक्थमिति । सामभेदः । रिक्थमिति । 'द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु' इत्यमरः। सिक्थ इति । 'सिक्थो भक्तपुलाके ना मधूच्छिष्टे नपुंसकम्' इति मेदिनी । 'मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्' इत्यमरः । अतर्निरि । ऋ गतौ, अस्मात् थगिति शेषः । निर्ऋथं साम । निशीथगोपीथावगथाः । शी स्वप्ने निपूर्वः, पा पाने गोपूर्वः, गाङ् गतौ अवपूर्वः, एतेभ्यः थक्प्रत्ययः स्यात् । निशीथ इति । कित्त्वान्न गुणः । 'अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ' इत्यमरः । 'निशीथस्तु पुमानर्धरात्रे स्यादात्रिमात्रके' इति मेदिनी । गोपीथः सोमपानम् । तीर्थमिति तु वृत्तिः । घुमास्थतीत्त्वम् । अवगथ इति । थकि धातोराकारस्य ह्रस्वत्वं निपात्यते । गश्चोदि । गै शब्दे इत्यस्य कृतात्वानुकरणस्य ग इति षष्ठ्यन्तम् । आतो धातोः' इत्याकारलोपः। उदि उपपदे गैधातोः थक्प्रत्यय इत्यर्थः । 'दृतिसीमन्तहरितो रोमन्थोद्गीथबुबुदाः' इत्यमरः। समीणः । समि उपपदे इण्धातोः थगित्यर्थः । समिथ इति । वेदभाष्ये त्वस्य संग्रामपरत्वमुक्तम् । तिथपृष्ठगूथयूथप्रोथाः । तिज निशाने, पृषु नोलीसूक्ष्मैलयोरपि' इति विश्वः । 'तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् । 'सिक्थो भक्कपुलाके ना मधूच्छिष्टे नपुंसकम्' इति मेदिनी। अतः। ऋ गतौ। 'द्रोघवाचस्ते निर्ऋथं सचन्ताम्' इति मन्त्रे निर्ऋथो हिंसेति वेदभाष्यम् । निशीथ । शीङ् खप्न निपूर्वः, पा पाने गोपूर्वः, 'धुमास्था-' इतीत्वम् । गाङ् गतौ। अवपूर्वस्य धातोर्हस्वत्वम् । 'निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके' इति मेदिनी । 'प्रति त्यं चारुमध्वरम्' इति मन्त्रे गोपीथः सोमपानमिति वेदभाष्यम् । तीर्थमिति तु वृत्ति-- कारः । गश्चोदि । उदि उपपदे गै शब्दे इत्यस्मात् थक् । समीणः । इण गतावस्मात्समि उपपदे थक् । समिथशब्दः संग्रामपर्यायेषु वैदिकनिघण्टौ पठितः। 'श्रिये जातः' इति मन्त्रे समिथाः युद्धानीति वेदभाष्यम् । तच्च युक्तमेव । सम्यगेति