________________
१८२]
सिद्धान्तकौमुदी। [ उणादि काष्ठम् । १६० अवे भृत्रः । अवभृथः । १६१ उषिकुषिगर्तिभ्यस्थन् । ओष्ठः । कोष्ठम् । गाथा। मर्थः। बाहुलकान्छोथः। १६२ सर्तेणित् । सार्थः समूहः । १६३ ज़वृभ्यामूथन् । जरूथं मांसम् । 'वरूथो रथगुप्तौ ना'। १६४ पातृतुदिवचिरिचिसिचिभ्यस्थक् । पीथो रविः । घृतं पीथम् । इति मेदिनी । काष्ठमिति । 'काष्ठं दार्विन्धनं त्वेधः' इत्यमरः। अवे भृत्रः। डु भृञ् धारणपोषणयोः, अस्मादवे उपपदे क्यन्प्रत्ययः स्यात् । अवभृथ इति। 'दीक्षान्तोऽवभृथे यज्ञे तत्कर्माहं तु यज्ञियम्' इत्यमरः । उषिकुषिगर्तिभ्यस्थन् । उष दाहे, कुष निष्कर्षे, गै शब्दे, ऋ गतौ, एषां द्वन्द्वात्पञ्चमी। ओष्ठ इति । 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । कोष्ठमिति। 'पुंसि कोष्ठेऽन्त. र्जठरं कुसूलोऽन्तर्गृहं तथा' इत्यमरः । कोष्ठं कुक्षिकुसूलयोः' इत्यमरः । गाथेति । 'गाथा श्लोके संस्कृतान्यभाषायां शेषत्तयोः' इति भेदनी । अर्थ इति । 'अर्थविभवा अपि' इत्यमरः । बाहुलकात् शोथ इति । 'शोफस्तु श्वयथुः शोथः' इत्यमरः । शु गतावित्यस्मात्प्रत्ययः । सर्तेर्णित् । स गतावित्यस्मात् थन्प्रत्ययः । स च णिद् भवतीत्यर्थः । सार्थ इति रूपम्, 'सार्थो वणिक्समूहे स्यादपि संघातमात्रके' इति मेदिनी। जृवृञ्भ्यामूथन् । वयोहानौ, जृष्धातुश्च गृह्यते, वृञ् वरणे, पाभ्यामूथन् स्यात् । जरूथ इति । जुधातो रूपम् । तस्यार्थमाह मांसमिति । वरूथ इति । 'रथगुप्तिर्वरूथो ना कूवरस्तु युगन्धरः' इत्यमरः । पाततुदिवचि । पा पाने, तृ प्लवनतरणयोः, तुद व्यथने, वच परिभाषणे, रिचिर् विरेचने, षिचिर क्षरणे, एषो द्वन्द्वात्पञ्चमी । एभ्यस्थक्प्रत्ययः स्यात् । पीथ इति । घुमास्थेतीत्त्वमिति भावः। तीर्थमिति । ऋत इत्त्वे रपरत्वे दीर्घ इति भावः। 'अङ्गल्यप्रे तीर्थ दैवं स्वल्पाजल्योर्मूले कायम्' इत्यमरः । 'निपातागमयोस्तीर्थमृविजुष्टे जले र्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम्' इति मेदिनी । अवे । दुभृञ् धारणपोषणयोः । अवभृथो यज्ञावसानम् । उषिकुषि । उष दाहे, कुष निष्कर्षे, गै शब्दे, ऋ गतौ, एभ्यः स्थन् । 'कोष्ठं कुक्षिकुसूलयोः । 'गाथा श्लोके संस्कृतान्यभाषायां शेषवृत्तयोः' इति मेदिनी। 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । शोथः श्वयथुः, शु गतौ । सर्तेः । स गतौ। 'सार्थो वणिक्समूहे स्यादपि संघात. मात्रके' इति मेदिनीविश्वप्रकाशौ । जृवृञ् । ज़ वयोहानी क्रयादिः, जष् दिवादौ । वृञ् वरणे । जरूथोऽसुरविशेष इति वेदभाष्यम् । 'वरूथः स्यात्तनुत्राणे रथगोपनवेश्मनोः' इति हेमचन्द्रः । पात। पा पाने, तु प्लवनतरणयोः, तुद व्यथने, वच परिभाषणे, रिचिर् विरेचने, षिच क्षरणे, ऋच स्तुतौ। 'तुत्योऽग्नावजने तुत्था