________________
प्रकरणम् ६७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १८१
•
अथ उणादिषु द्वितीयः पादः ।
१५८ कृहृभ्यामेणुः । करेणुः । हरेणुः, गन्धद्रव्यम् । १५६ हनि - कुषिनीरमिकाशिभ्यः क्थन् । हथो विषण्णः । कुष्ठः । नीथो नेता । रथः । प्रक्रियामा हस्य घ इति । 'इन्द्रो मरुत्वान्मघवा विडौजाः पाकशासनः' इत्यमरः । इत्युणादिषु प्रथमः पादः समाप्तः ।
अथ द्वितीयः पादः । कृहृभ्यामेणुः । डुकृञ् करणे, हृञ् हरणे, श्रभ्यामेणुप्रत्ययः। तस्मिन्प्रत्यये परे धातोर्गुण इति भावः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । 'करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे' इति मेदिनी । हरेणुरिति । 'हरेणुः खण्डिके चास्मिन्' इत्यमरः । 'हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितो ः ' इति मेदिनी । हनिकुषिनी । हन हिंसागत्योः, कुष निष्कर्षे, णीञ् प्रापणे, रमु क्रीडायां काट दीप्तौ, एषां द्वन्द्वात् पञ्चमी । एभ्यः क्थन्प्रत्ययः स्यात् । हथ इति । 'अनुदात्तोपदेशवनतितनोत्यादीनाम् -' इत्यनुनासिकलोपः । कुष्ठ इति । 'व्याधिः कुष्ठं पारिभाव्यम्' इत्यमरः । कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी' इत्यमरः । 'कुं मुराडं शीधु बुस्तम्' इत्यमरः । ' कुष्ठं रोगे पुष्करे स्त्री' इति मेदिनीकोशश्च । रथ इति । ' रथाभ्रपुष्पविदुर' इत्यमरः । ' रथः पुमानवयवे स्यन्दने वेतसेऽपि च '
तदन्तस्य च ग्रहणात् । तेन मातरिश्वनः मातरिश्वनेत्येव । इद्द सूत्रे इतिशब्द श्रायर्थस्तेनान्येभ्योऽपि यथादर्शनं कनिः प्रयोक्तव्यः । दशपाद्यां तु इति शब्दोऽत्र न पठ्यते । इत्युणादिषु प्रथमः पादः ।
कृहृभ्याम् । डुकृञ् करणे, हृञ् हरणे । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । 'करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे इति मेदिनी । गन्धद्रव्यमिति । कलायश्वेति बोध्यम् । 'कलायस्तु सतीनकः' इत्यमरः । 'हरेणुखण्डिके चास्मिन्' इत्यमरः हरेणुर्ना सतीने स्त्री रेणुकाकुलयोषितो:' इति मेदिनीविश्वप्रकाशौ । हनिकुषि । हन हिंसागत्योः, कुप निष्कर्षे, णीञ् प्रापणे, रमु क्रीडायाम् का दीप्तौ । 'कुठं रोगे पुष्करे स्त्री' इति मेदिनी । 'कुष्ठं रोगे सुगन्धे च' इति विश्वः । ' नीथे नीथे मघवानं सुतासः' इति मन्त्रे नीथशब्दस्यान्तोदात्तत्वं बाहुलकात् । नीथे नीथे स्तोत्रे स्तोत्रे इति वेदभाष्यम्) 'रथः पुमानवदवे स्यन्दने वेतसेऽपि च' इति मेदिनी । 'रथः स्यात्स्यन्दने काये वीरणे वेतसेऽपि च' इति विश्वः । 'काष्ठा दारुहरिद्रायां कालमान प्रक
,