________________
१८० ]
सिद्धान्तकौमुदी। [उणादिदीर्घत्वम् । मेहतीति प्लीहा कुक्षिव्याधिः । किदू पार्टीभावे । नियति वेदा चन्द्रः । निझतेर्गुणः । नियतीति स्नेहा सुहृमचन्द्रश्च । मुह्यन्त्यस्मिन्नाहते मूर्धा । मुहेरुपधाया दी| धोऽन्तादेशो रमागमश्च । मजयस्थिषु मजा अस्थिसारः । अर्यपूर्वो माङ्। अर्यमा । विश्वं प्साति विश्वप्सा अग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्वान्तादेशः । मातयन्तरिक्ष श्वयतीति मातरिश्वा। धातोरिकारलोपः । मह पूजायाम् । हस्य घो वुगागमश्च, मघवा इन्द्रः ।
इत्युणादिषु प्रथमः पादः
मह पूजायाम् , एते कनिन्प्रत्ययान्ता निपात्यन्त इत्यर्थः । श्वेति । इकारलोपो निापत्यते । 'शुनको भषकः श्वा स्यात्' इत्यमरः। उक्षेति । 'उक्षा भद्रो बलीवर्दः' इत्यमरः । पूषेति । सौ चेत्युपधादीर्घः । पूषणावित्यादौ तु इन्हन्निति नियमाद् न दीर्घः। 'विकर्तनार्कमार्तण्डमिहिरारुणपूषणः' इत्यमरः । प्लिह गताविति । अस्मात् कनिप्रत्यये उपधाया इकारस्य दीर्घ इत्यर्थः । 'अन्नं पुरीतद् गुल्मस्तु प्लीहा पुंस्यथ वनसा' इत्यमरः। मूर्धेति । 'मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः । मजेति । मजन्शब्दस्य नकारान्तत्वेऽपि स्त्रीत्वविवक्षायां टाबप्यभ्युपेयते। 'सारो मज्जा नरि त्वक् स्त्री' इत्यमरः । अर्यमेति । 'अर्यमा तु पुमान्सूर्ये पितृदेवान्तरेऽपि च' इति मेदिनी । 'सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः' इत्यमरः । परिज्मेत्यत्र. प्रकियामाह जनेरुपधालोप इत्यादि । मातरिश्वेति । सप्तम्या अलुक निपातनात् । 'श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः' इत्यमरः । मघवन्शब्दे पेक्ष्यम् । श्वेति । इकारलोपो निपात्यते। पूषेति । 'सौ च' इत्युपधादीर्घः । 'इन्हन्-' इति नियमात्पूषणौ पूषण इत्यादौ न दीर्घः । 'क्लेदोषधिशशाङ्कयोः' इति यादवः । मूर्धति । 'मूर्धा ना मस्तकोऽस्त्रियाम्' इत्यमरः । मजेति । नकारान्तो. ऽयं टाबन्तोऽप्यभ्युपगम्यते । 'ऊष्मया सार्धमूष्मापि मजोको मजया सह' इति द्विरूप. कोशात् । 'अयेमा तु पुमान्सूर्ये पितृदेवान्तरेऽपि च' इति मेदिनी। परिजायत इत्यादि । एतच्च दशपादीवृत्त्यनुरोधेनोक्तम् । 'परिज्मानं सुखं रथम्' इति मन्त्रस्य वेदभाष्ये तु परिज्मा परितो गन्ता । अजेः परिपूर्वस्य 'श्वन्नुक्षन्-' इत्यादिना मन्प्रत्ययः, अकारलोपः आद्युदात्तत्वं च निपात्यत इत्युक्तम् । उज्ज्वलदत्तस्तु परिज्वेति पठित्वा जु इति सौत्रो धातुः परिपूर्वः, यणादेशः परिज्वा चन्द्र इत्याह, तल्लक्ष्यविरोधादुपेक्ष्यम् । मातरिश्वेति । सप्तम्या अलुक् । इह मत्वविषये संप्रसारणं न भवति । 'श्वयुव-' इति सूत्रे अभिव्यक्ततरत्वेन कुक्कुरवाचकस्यैव श्वशब्दस्य